Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
॥ ४१७ ।।
www.kobatirth.org
भाव इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा मन्तव्या विज्ञेया क्षायोपशमिकत्वाच्छ्रुतस्येति गाथार्थ: ।। ३६१ ।। तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽह
नि० दव्वे दुहा उ कम्मे नोकम्मरई अ सद्ददव्वाई। भावरई तस्सेव उ उदए एमेव अरईवि ।। ३६२ ।।
द्रव्यरतिरागमनो आगमज्ञशरीरेतरातिरिक्ता द्विधा- कर्मद्रव्यरतिनकर्मद्रव्यरतिश्च तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच्च बद्धमनुदयावस्थं गृह्यते नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि, आदिशब्दात् स्पर्शरसादिपरिग्रहः रतिजनकानि रतिकारणानि । भावरतिः तस्यैव तु रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति गाथार्थ: ।। ३६२ ।। उक्ता रतिः, इदानीं वाक्यमतिदिशन्नाह
नि०- वक्कं तु पुव्वभणिअं धम्मे रइकारगाणि वक्त्राणि । जेणमिमीए तेणं रङ्गवक्वेसा हवइ चूडा ।। ३६३ ।।
वाक्यं तु पूर्वभणितं वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं धर्मे चारित्ररूपे रतिकारकाणि रतिजनकानि तानि च वाक्यानि येन कारणेन अस्यां चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तॄणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः ।। ३६३ ।। इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् । आह च
नि०- जह नाम आउरस्सिह सीवणछेज्जेसु कीरमाणेसु । जंतणमपत्थकुच्छाऽऽमदोसविरई हिअकरी उ ।। ३६४ ।। यथा नामेति प्रसिद्धमेतत् आतुरस्य शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य इह लोके सीवनच्छेदेषु सीवनच्छेदनकर्मसु क्रियमाणेषु सत्सु, किमित्याह- यन्त्रणं गलयन्त्रादिना अपथ्यकुत्सा अपथ्यप्रतिषेधः आमदोषविरतिः अजीर्णदोषनिवृत्तिः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रथमा
रतिवाक्य
चूलिका,
निर्युक्तिः
| ३६२-३६३ भावरतिः ।
द्रव्य
| नियुक्ति: ३६४ |रत्यभिधानोपदर्शनम्।
।। ४९७ ।।

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466