Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 445
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ४२१ ।। www.kobatirth.org एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसंपत्- सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं ७ । तथा दुर्लभः खलु भो! गृहिणां धर्म इति प्रमादबहुलत्वाद्दुर्लभ एव भो इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह- गृहपाशमध्ये वसता मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम्, एतच्चिन्तनीयमित्यष्टमं स्थानं ८ । तथा आतङ्कस्तस्य वधाय भवति आतङ्कः सद्योघाती विषूचिकादिरोगः तस्य गृहिणो धर्मबन्धुरहितस्य वधाय विनाशाय भवति, तथा वधश्चानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानं ९ । तथा संकल्पस्तस्य वधाय भवति संकल्प इष्टानिष्टवियोगप्राप्तिजो मानस आतङ्कः, तस्य गृहिणस्तथा चेष्टायोगान्मिथ्याविकल्पाभ्यासेन ग्रहादिप्राप्तेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं १० तथा सोपक्लेशो गृहिवास इति सहोपक्लेशैः सोपक्लेशो गृहिवासो- गृहाश्रमः, उपक्लेशा:- कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्ण श्रमादयो घृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा निरुपक्लेशः पर्याय इति, एभिरेवोपक्लेश रहितः प्रव्रज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ । तथा बन्धो गृहवासः सदा तद्धेत्वनुष्ठानात्, कोशकारकीटवदिति, एतच्चिन्तनीयमिति त्रयोदशं स्थानं १३ । तथा मोक्षः पर्यायः अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानं १४ । अत एव सावद्यो गृहवास इति सावद्य:- सपापः प्राणातिपातमृषावादादिप्रवृत्तेरेतच्चिन्तनीयमिति पञ्चदशं स्थानं १५ । एवं अनवद्यः पर्याय इति अपाप इत्यर्थः, अहिंसादिपालनात्मकत्वाद्, एतच्चिन्तनीयमिति षोडशं स्थानं १६ । तथा बहुसाधारणा गृहिणां कामभोगा इति बहुसाधारणाः- चौरराजकुलादिसामान्या 'गृहिणां' गृहस्थानां कामभोगाः पूर्ववदिति, एतच्चिन्तनीयमिति सप्तदशं स्थानं १७ । तथा प्रत्येकं पुण्यपाप मिति मातापितृ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | प्रथमा रतिवाक्य चूलिका, सूत्रम् (श्लोकजातिः), उत्प्रव्रजित कामस्याष्टादशस्थानार्थव्यतिकरः । ।। ४२१ ।।

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466