Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 450
________________ Shri Mahavir Jain Aradhana Kendra www.kababirth.org Acharya Shri Kailassagarsun Gyanmandit श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् || ४२६॥ प्रथमा रतिवाक्य चूलिका, सूत्रम् १-१४ सीदतः एव पर्यायः प्रव्रज्यारूप: महर्षीणां सुसाधूनां रताना सक्तानाम्, पर्याय एवेति गम्यते, एतदुक्तं भवति- यथा देवलोके देवाः ।। प्रेक्षणकादिव्यापृता अदीनमनसस्तिष्ठन्त्येवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषत्वात् प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । अस्तानां च भावतः समाचार्यामसक्तानां च, चशब्दाद्विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रसत्त्वानां महानरकसदृशो रौरवादितुल्यस्तत्कारणत्वान्मानस स्थिरीकरदुःखातिरेकात् तथा विडम्बनाञ्चेति सूत्रार्थः ॥ १०॥ एतदुपसंहारेणैव निगमयन्नाह- अमरोपमं उक्तन्यायाद्देवसदृशं ज्ञात्वा णार्थमुनिविज्ञाय सौख्यमुत्तमं प्रशमसौख्यम्, केषामित्याह- रतानां पर्याये सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गन्ये श्रामण्ये, तथा व्रजितस्य परितापना अरतानां पर्याय एव, किमित्याह- नरकोपमं नरकतुल्यं ज्ञात्वा दुःखं उत्तम प्रधानमुक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद् निदर्शनम्। रमेत सक्तिं कुर्यात्, वेत्याह- पर्याये उक्तस्वरूपे पण्डितः शास्त्रार्थज्ञ इति सूत्रार्थः ।।११।। पर्यायच्युतस्यैहिकं दोषमाह- धर्मात् श्रमणधर्माद भ्रष्टच्यतं थियोऽपेतं तपोलक्ष्म्या अपगतं यज्ञानि अग्निष्टोमाद्यनलं विध्यातमिव यागावसानेऽल्पतेजसम. अल्पशब्दोऽभावे, तेजःशून्यं भस्मकल्पमित्यर्थः हीलयन्ति कदर्थयन्ति, पतितस्त्वमिति पङ्क्त्यपसारणादिना, एनं उन्निष्क्रान्तं दुर्विहितं उन्निष्क्रमणादेव दुष्टानुष्ठायिनं कुशीलाः तत्सङ्गोचिता लोकाः, स एव विशेष्यते- दाढुडिअंति प्राकृतशैल्या उद्धृतदंष्ट्रउत्खातदंष्ट्र घोरविषमिव रौद्रविषमिव नागं सर्पम्, यज्ञाग्निसोपमानम्, लोकनीत्या प्रधानभावादप्रधानभावख्यापनार्थमिति सूत्रार्थः ।।१२।। एवमस्य भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिकमाह- इहैव इहलोक एव अधर्म इत्ययमधर्मः, फलेन दर्शयति- यदुत अयशः अपराक्रमकृतं न्यूनत्वं तथा अकीर्तिः अदानपुण्यफलप्रवादरूपा तथा दुर्नामधेयं च पुराणः पतित इति कुत्सितनामधेयं च भवति, क्वेत्याह- पृथम्जने सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्येत्याह- च्युतस्य धर्माद् || ४२६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466