Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 448
________________ Shri Mahavir Jain Aradhana Kendra श्रीदश वैकालिकं श्रीहारि० वृत्तियुतम् ।। ४२४ ।। www.kobatirth.org किमर्थमित्याह- भोगकारणात् शब्दादिभोगनिमित्तं स धर्मत्यागी तत्र तेषु भोगेषु मूर्च्छितो गृद्धो बालः मन्दः आयतिं आगामिकालं नावबुद्ध्यते न सम्यगवगच्छतीति सूत्रार्थः ।। १ ।। एतदेव दर्शयति यदा अवधावितः अपसृतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, इन्द्रो वे ति देवराज इव पतितः क्ष्मां क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इति भावः, क्ष्मा भूमिः । सर्वधर्मपरिभ्रष्टः सर्वधर्मेभ्यः - क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः सर्वतश्च्युतः, स पतितो भूत्वा पश्चात् मनाग् मोहावसाने परितप्यते किमिदमकार्यं मयाऽनुष्ठितमित्यनुतापं करोतीति सूत्रार्थः ॥ २ ॥ यदा न वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवत्युन्निष्क्रान्तः सन्नवन्द्यः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः ॥ ३ ॥ तथा यदा च पूज्यो भवति - वस्त्रभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रव्रजितः सन्नपूज्यो लोकानामेव तदा राजेव राज्यप्रभ्रष्टः महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः ।। ४ ।। यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव कर्बटे महाक्षुद्रसंनिवेशे क्षिप्तः सन् स पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः ॥ ५ ॥ यदा च स्थविरो भवति स त्यक्तसंयमो वयः परिणामेन, एतद्विशेषप्रतिपादनायाह- समतिक्रान्तयौवनः, एकान्तस्थविर इति भावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव गलं बडिशं गिलित्वा अभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः ।। ६ ।। एतदेव स्पष्टयति- यदा च कुकुटुम्बस्य कुत्सितकुटुम्बस्य कुतप्तिभिः कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ? - यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते ॥ ७ ॥ एतदेव स्पष्टयति- पुत्रदारपरिकीर्णो विषयसेवनात्पुत्रकलत्रादिभिः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रथमा रतिवाक्य चूलिका, सूत्रम् १-८ सीदतः स्थिरीकरणार्थमुत्प्रिव्रजितस्य परितापना निदर्शनम्। ।। ४२४ ।।

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466