Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 439
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shes kailassagarsun Gyanmandir दशममध्ययन सभिक्षुः, श्रीदश- वैकालिक श्रीहारिक वृत्तियुतम् ॥४१५॥ १६-२१ भिक्षुस्वरूप: अमूच्छोडगृद्धोडज्ञातोछः। स भिक्षुरिति सूत्रार्थः ॥१७॥ तथा न परं स्वपक्षविनेयव्यतिरिक्तं वदति अयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात्, स्वपक्षविनेयं । तु शिक्षाग्रहणबुद्ध्या वदत्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्धावेऽपि, किमित्यत आह- ज्ञात्वा प्रत्येकं । पुण्यपापम्, नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैर्गर्वमायाति यः। स भिक्षुरिति सूत्रार्थः ॥ १८ ।। मदप्रतिषेधार्थमाह- न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न च रूपमत्तो यथाऽहं रूपवानादेयः, न लाभमत्तो यथाऽहं लाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, अत एवाह- मदान् सर्वान् । कुलादिविषयानपि परिवर्त्य परित्यज्य धर्मध्यानरतो यो यथागमं तत्र सक्तः स भिक्षुरिति सूत्रार्थः ।। १९।। किंच-प्रवेदयति । कथयति आर्यपदं शुद्धधर्मपदं परोपकाराय महामुनिः शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्यत आहधर्मे स्थितः स्थापयति परमपि-श्रोतारम्, तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति कुशीललिङ्ग आरम्भादि कुशीलचेष्टितम्, तथा न चापि हास्यकुहको न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः ।। २० ।। भिक्षुभावफलमाह- तं देहवास मित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासं अशुचिं शुक्रशोणितोद्भवत्वादिना अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुबन्धत्यागेन, क इत्याह- नित्यहिते मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा अत्यन्तसुस्थितः, स चैवंभूतश्छित्त्वा । जातिमरणस्य संसारस्य बन्धनं कारणं उपैति सामीप्येन गच्छति भिक्षुः यति: अपुनरागमा पुनर्जन्मादिरहितामित्यर्थः, गतिमिति। सिद्धिगतिम्, ब्रवीमीति पूर्ववदिति सूत्रार्थः ।। २१ । उक्तोऽनुगमो, नयाः पूर्ववत्, इति व्याख्यातं सभिक्ष्वध्ययनम् ।। १०॥ ॥सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती दशममध्ययनंसभिक्ष्वाख्यं समाप्तमिति ।। ||४१५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466