Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 437
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ ४१३॥ ११-१५ भिक्षुस्वरूपः समसुखदुःखः। शब्दाः सप्रहासा यस्मिन् स्थान इति गम्यते तत्तथा तस्मिन्, वैतालादिकृतार्त्तनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुख- दशममध्ययन दुःखसहश्च- यः अचलितसामायिकभावः स भिक्षुरिति सूत्रार्थः॥ ११॥ एतदेव स्पष्टयति- प्रतिमा मासादिरूपां प्रतिपद्य सभिक्षुः, सूत्रम् विधिनाऽङ्गीकृत्य श्मशाने पितृवने न बिभेति न भयं याति भैरवभयानि दृष्ट्वा रौद्रभयहेतूनुपलभ्य वैतालादिरूपशब्दादीनि । विविधगुणतपोरतश्च नित्यं मूलगुणाद्यनशनादिसक्तश्च सर्वकालम्, न शरीरमभिकासते निःस्पृहतया वार्त्तमानिकं भावि च, य इत्थंभूतः स भिक्षुरितिसूत्रार्थः ।। १२ । न सकृदसकृत्सर्वदेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेहः व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देहः- शरीरं येन स तथाविधः, आकृष्टो वा यकारादिना हतो वा दण्डादिना लूषितो वा खडगादिना सूत्रम् १६ भक्षितो वा श्वशृगालादिना पृथिवीसमः सर्वसहो मुनिर्भवति, न च रागादिना पीड्यते, तथा अनिदानो भाविफलाशंसारहितः, भिक्षुस्वरूपः अकुतूहलश्च नटादिषु, य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥ १३ ।। भिक्षुस्वरूपाभिधानाधिकार एवाह- अभिभूय पराजित्य अमूछोऽ गृद्धोऽकायेन शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तत्त्वतस्तदनभिभवात्, परीषहान् क्षुदादीन्, ज्ञातोछः। समुद्धरति उत्तारयति जातिपथात् संसारमार्गादात्मानम्, कथमित्याह विदित्वा विज्ञाय जातिमरणं संसारमूलं महाभयं महाभयकारणम्, तपसि रतः तपसि सक्तः, किंभूत इत्याह श्रामण्ये श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रार्थः ।। १४ ।। तथा हस्तसंयतः पादसंयत इति- कारणं विना कूर्मवल्लीन आस्ते कारणे च सम्यग्गच्छति, तथा वाक्संयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, संयतेन्द्रियो निवृत्तविषयप्रसरः, अध्यात्मरतः प्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थं च यथावस्थितं विधिग्रहणशुद्धं विजानाति यःसम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः ॥१५॥ उवहिंमि अमुच्छिए अगिद्धे, अन्नायउँछं पुलनिप्पुलाए। कयविक्कयसंनिहिओ विरए, सव्वसंगावगए अजे स भिक्खू ।। सूत्रम् १६॥ ||४१३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466