Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 380
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥३५६॥ अष्टममध्ययन आचारप्रणिधिः, सूत्रम् २-१२ आचारप्रणिधी षट्कायहिंसा प्रतिषेधः। करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्यथेति सूत्रार्थः ॥ ३॥ एवं सामान्येन षड्जीवनिकायाहिंसया संयतत्वमभिधायाधुना तद्गतविधीन्विधानतो विशेषेणाह-'पुढवि'त्ति सूत्रम्, पृथिवीं शुद्धां भित्ति तटीं शिला पाषाणात्मिकां। अलेष्टुं इट्टालखण्डं नैव भिन्द्यात् नो संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं संलेखनं ईषल्लेखनं त्रिविधेन करणयोगेन न करोति । मनसेत्यादिना संयतः साधुः सुसमाहितः शुद्धभाव इति सूत्रार्थः ॥ ४॥ तथा सुद्ध'त्ति सूत्रम्, शुद्धपृथिव्यां अशस्त्रोपहतायामनन्तरितायां न निषीदेत, तथा सरजस्के वा पृथ्वीरजोऽवगुण्ठिते वा आसने पीठकादौ न निषीदेत, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत् ज्ञात्वे त्यचेतना ज्ञात्वां याचयित्वाऽवग्रह मिति यस्य संबन्धिनी । पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः ॥ ५॥ उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाह-'सीओदगं'ति सूत्रम्, शीतोदकं पथिव्यद्भवं सच्चित्तोदकं न सेवेत, तथा शिलावष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगान्ते, वृष्टं वर्षणम्, हिमं प्रतीतं प्राय उत्तरापथे भवति । यद्येवं कथमयं वर्त्ततेत्याह- उष्णोदकं क्वथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तम्, नोष्णोदकमात्रम्, प्रतिगृह्णीयाद्वृत्त्यर्थं संयतः साधु एतच्च सौवीराद्युपलक्षणमिति सूत्रार्थः ॥ ६॥ तथा उदउल्लं ति सूत्रम्, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहत: उदकाढू उदकबिन्दुचितमात्मनः कार्य शरीरं स्निग्धं वा नैव पुञ्छयेद् वस्त्रतृणादिभिः न संलिखेत् पाणिना, अपितु संप्रेक्ष्य निरीक्ष्य तथाभूतं उदकार्दादिरूपं नैव कायं संघट्टयेत् मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः ॥ ७॥ उक्तोऽप्कायविधिः, तेज:कायविधिमाह-'इंगालं ति सूत्रम्, अङ्गार ज्वालारहितं अग्निं अय:पिण्डानुगतं अर्चिः छिन्नज्वालं अलातं उल्मुकं वा सज्योतिःसाग्निकमित्यर्थः, किमित्याह- नोत्सिञ्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनम्, तथा नैनं- अग्निं निर्वापयेद् अभावमापादयेत् मुनिः साधुरिति सूत्रार्थः ॥ ८॥प्रतिपादितस्तेजःकायविधिः, ॥ ३५६।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466