________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥३५६॥
अष्टममध्ययन आचारप्रणिधिः, सूत्रम् २-१२ आचारप्रणिधी षट्कायहिंसा प्रतिषेधः।
करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्यथेति सूत्रार्थः ॥ ३॥ एवं सामान्येन षड्जीवनिकायाहिंसया
संयतत्वमभिधायाधुना तद्गतविधीन्विधानतो विशेषेणाह-'पुढवि'त्ति सूत्रम्, पृथिवीं शुद्धां भित्ति तटीं शिला पाषाणात्मिकां। अलेष्टुं इट्टालखण्डं नैव भिन्द्यात् नो संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं संलेखनं ईषल्लेखनं त्रिविधेन करणयोगेन न करोति । मनसेत्यादिना संयतः साधुः सुसमाहितः शुद्धभाव इति सूत्रार्थः ॥ ४॥ तथा सुद्ध'त्ति सूत्रम्, शुद्धपृथिव्यां अशस्त्रोपहतायामनन्तरितायां न निषीदेत, तथा सरजस्के वा पृथ्वीरजोऽवगुण्ठिते वा आसने पीठकादौ न निषीदेत, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत् ज्ञात्वे त्यचेतना ज्ञात्वां याचयित्वाऽवग्रह मिति यस्य संबन्धिनी । पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः ॥ ५॥ उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाह-'सीओदगं'ति सूत्रम्, शीतोदकं पथिव्यद्भवं सच्चित्तोदकं न सेवेत, तथा शिलावष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगान्ते, वृष्टं वर्षणम्, हिमं प्रतीतं प्राय उत्तरापथे भवति । यद्येवं कथमयं वर्त्ततेत्याह- उष्णोदकं क्वथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तम्, नोष्णोदकमात्रम्, प्रतिगृह्णीयाद्वृत्त्यर्थं संयतः साधु एतच्च सौवीराद्युपलक्षणमिति सूत्रार्थः ॥ ६॥ तथा उदउल्लं ति सूत्रम्, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहत: उदकाढू उदकबिन्दुचितमात्मनः कार्य शरीरं स्निग्धं वा नैव पुञ्छयेद् वस्त्रतृणादिभिः न संलिखेत् पाणिना, अपितु संप्रेक्ष्य निरीक्ष्य तथाभूतं उदकार्दादिरूपं नैव कायं संघट्टयेत् मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः ॥ ७॥ उक्तोऽप्कायविधिः, तेज:कायविधिमाह-'इंगालं ति सूत्रम्, अङ्गार ज्वालारहितं अग्निं अय:पिण्डानुगतं अर्चिः छिन्नज्वालं अलातं उल्मुकं वा सज्योतिःसाग्निकमित्यर्थः, किमित्याह- नोत्सिञ्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनम्, तथा नैनं- अग्निं निर्वापयेद् अभावमापादयेत् मुनिः साधुरिति सूत्रार्थः ॥ ८॥प्रतिपादितस्तेजःकायविधिः,
॥ ३५६।।
For Private and Personal Use Only