________________
Shri Mahavir Jain Aradhana Kendra
श्रीदश
वैकालिकं
श्रीहारि० वृत्तियुतम्
।। ३५७ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. अनन्त
वायुकायविधिमाह- 'तालिअंटेण 'त्ति सूत्रम्, तालवृन्तेन व्यजनविशेषेण पत्रेण पद्मिनीपत्रादिना शाखया वृक्षडालरूपया विधूप (व) नेन वा व्यजनेन वा, किमित्याह न वीजयेद् आत्मनः कार्य स्वशरीरमित्यर्थः बाह्यं वापि पुद्गलं उष्णोदकादीति सूत्रार्थः ।। ९ ।। प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह- 'तण'त्ति सूत्रम्, तृणवृक्षमित्येकवद्भावः, तृणानि दर्भादीनि वृक्षा:- कदम्बादयः, एतान्न छिन्द्यात् फलं मूलं वा कस्यचिद्वृक्षादेर्न छिन्द्यात्, तथा आमं अशस्त्रोपहतं विविधं अनेकप्रकारं बीजं न मनसाऽपि प्रार्थयेत्, किमुत अश्नीयादिति सूत्रार्थः ॥ १० ॥ तथा 'गहणेसु 'त्ति सूत्रम्, गहनेषु वननिकुञ्जेषु न तिष्ठेत्, संघट्टनादिदोषप्रसङ्गात्, तथा बीजेषु प्रसारितशाल्यादिषु हरितेषु वा दूर्वादिषु न तिष्ठेत्, उदके तथा नित्यं अत्रोदकंवनस्पतिविशेष:, यथोक्तं- उदए अवए पणए इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्गः- सर्पच्छत्रादिः पनकः- उल्लिवनस्पतिरिति सूत्रार्थः ।। ११ ।। उक्तो वनस्पतिकायविधिः, त्रसकायविधिमाह'तस' त्ति सूत्रम्, त्रसप्राणिनो द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याह- वाचा अथवा कर्मणा कायेन, मनसस्तदन्तर्गतत्वादग्रहणम्, अपि च- उपरतः सर्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं जगत् कर्मपरतन्त्रं नरकादिगतिरूपम्, निर्वेदायेति सूत्रार्थः ।। १२ ।। अट्ठ सुहुमाइ पेहाए, जाई जाणित्तु संजए। दयाहिगारी भूएसु, आस चिट्ट सएहि वा ।। सूत्रम् १३ ।। कयराई अट्ठ सुहुमाई ?, जाई पुच्छिज संजए। इमाई ताई मेहावी, आइक्खिज विअक्खणो ।। सूत्रम् १४ ।। सिणेहं पुप्फसुहमं च, पाणुत्तिंगं तहेव य पणगं बी अहरिअं च, अंडसुहुमं च अट्टमं ॥ सूत्रम् १५ ।। एवमे आणि जाणिजा, सव्वभावेण संजए। अप्पमत्तो जए निचं, सव्विंदि असमाहिए। सूत्रम् १६ ।। @ उदकं वनस्पतिविशेषः प्र । उदकमवकः पनकः । सारम्भाणामशक्यं वर्जनं यस्य, निरारम्भैः सूक्ष्मोपयोगेन वर्जनीयं यत्, स्वरूपेण वा सूक्ष्मताभाक्।
For Private and Personal Use Only
अष्टममध्ययनं
आचार
प्रणिधिः,
सूत्रम् ९३-९६ अष्टौ सूक्ष्माणि तेषां विधिश्च।
।। ३५७ ।।