________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२४६॥
चतुर्थमध्ययन षड़जीवनिकायम, सूत्रम् १५ षट्काययतना।
से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, से बीएसुवे त्यादि, तद्यथा- बीजेषु वा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिनप्रतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिश्रितेषु वा, इह बीजं- शाल्यादि तत्प्रतिष्ठितम्, आहारशयनादि गृह्यते, एवं सर्वत्र वेदितव्यम्, रूढानि-स्फुटितबीजानि जातानि-स्तम्बीभूतानि हरितानि दूर्वादीनि छिन्नानि-परश्वादिभिर्वृक्षात् पृथक् स्थापितान्यामा॑णि अपरिणतानि तदङ्गानि गृह्यन्ते सचित्तानि अण्डकादीनि कोलो- घुणस्तत्प्रतिनिश्रितानि- तदुपरिवर्तीनि दार्वादीनि गृह्यन्ते, एतेषु किमित्याह-न गच्छेज्जा न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्तेत, तत्र गमनं- अन्यतोऽन्यत्र स्थानं- एकत्रैव निषीदनं- उपवेशनं त्वग्वर्तनंस्वपनम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न स्वापयेत्, तथाऽन्यं स्वत एव गच्छन्तं वा । तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
से भिक्खू वा भिक्खूणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओवा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिअ पडिलेहिअ पमजिअ पमजिअएगंतमवणेजा नो णं संघायमावजेजा। सूत्रम् १५ ।। से भिक्खू वा इत्यादि यावज्जागरमाणे व'त्ति पूर्ववत्, से कीडं वा इत्यादि, तद्यथा-कीटं वा पतङ्ग वा कुन्थुवा पिपीलिका । 0 नैतानि व्याख्यातानि टीकायां दीपिकायां तु व्याख्यातानि।
॥
४६॥
0080010908780000
For Private and Personal Use Only