Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 224
________________ जैनदर्शने शब्दप्रमाणस्य विभावना अकलङ्काचार्यानुसारन्तु खल्वेकमेव श्रुतज्ञानम् अक्षरात्मकमनक्षरात्मकञ्च भवति । लघीयस्त्रयनामके ग्रन्थेऽमी दार्शनिकाः कथयन्ति यत्- शब्दानां योजनायाः पूर्वं यन्मतिस्मृतिप्रत्यभिज्ञानतर्कानुमानादिकं ज्ञानं भवति, तन्मतिज्ञानमस्ति । अथ च शब्दानां योजनातः तदेव श्रुतज्ञानम्भवति । इदश्च श्रुतज्ञानमन्यैः प्रमाणैः यदा ज्ञाता स्वयं जानाति, तदा तदनक्षरश्रुतमिति कथ्यते, तद्वारा च तदन्येषां कृते ज्ञानं कारयति, तदा तदक्षरश्रुतमिति कथ्यते ।' श्वेताम्बरसम्प्रदायेऽपि श्रुतज्ञानविषये कृतो विस्तृतो विमर्शः समुपलभ्यते । तत्र जिनभद्रगणिमहाभागानां विशेषावश्यकभाष्यनामक: ग्रन्थः ध्यानपात्रमस्ति । तैस्तत्र श्रुतज्ञानं मतिज्ञानस्यैवैको भेद इति प्रतिपादितम् । इन्द्रियमनोनिमित्तेन जायमानं सर्वप्रकारकं ज्ञानं ते मतिज्ञानत्वेनैव स्वीकुर्वन्ति । परन्तु परोपदेशवचनैः आगमवचनैश्चोत्पन्नं ज्ञानविशेषं श्रुतज्ञानमस्तीत्यपि ते स्वीकुर्वन्ति । मतिश्रुतयोर्भेदस्य कारणानि प्रदर्शयन् विशेषावश्यकभाष्ये निगदितं यत्- मतेः श्रुतस्य च लक्षणं भिन्नमस्ति, मतिः कारणं श्रुतञ्च कार्यमस्ति, मतिभेदाः श्रुतभेदाश्च पृथक्, पृथक् सन्ति, श्रुतज्ञानस्येन्द्रियं श्रोत्रमेवास्ति, मतिज्ञानस्य च पुनः सर्वाणीन्द्रियाणि, मतिज्ञानं मूकमस्ति श्रुतञ्च वाचालम् । एवं मतिश्रुतयोः विविधः भेदः ।। __ इन्द्रियमनसोः साहाय्येन शब्दानुसारि यज्ज्ञानं जायते, तत् स्वस्मिन् प्रतिभासमानस्यार्थस्य प्रतिपादने समर्थं भवति, तदेव श्रुतज्ञानं कथ्यते । तद्यथा- 'घट' इति शब्दं श्रुत्वा घटार्थेन सह तस्य सङ्गतिः क्रियमाणे घट-घट-घट इत्यादिना शब्दोल्लेखेन सहान्तरङ्गे उत्पन्नं ज्ञानं स्वस्मिन् प्रतिभासमानस्यार्थस्य श्रुतिपारकं शब्दं जनयति, अतः तस्मादन्यं श्रोतारं बोधः सञ्जायते । अर्थात् श्रुतज्ञानद्वारा ज्ञाता स्वयमपि जानाति अन्यान् च ज्ञानं कारयति । मतिज्ञानं पुनरिन्द्रियमनसोः निमित्तेनोत्पन्नं भवति; शब्दानुसारि च तन्न भवत्येष एवोभयोः भेदः ।। एवञ्च कथनीयार्थमेव विषयीकरोत्यतः यादृशमपि श्रुतज्ञानमस्ति, तत्सर्वं शब्दस्यैव परिणामः प्रतीयते । शब्देनात्र परोपदेशरूपः शब्दः ग्रन्थरूपश्च शब्दः संगृहीतो भवति । ताभ्यामुभाभ्यां जायमानञ्ज्ञानं शब्दस्यैव परिमाणरूपं भवतीति स्पष्टमेव । . एतादृशी श्वेताम्बरमान्यतां प्रति दिगम्बर मान्यता न किमपि विरोधं सन्दधाति । यतोहि दिगम्बरमान्यतायामपि श्रुतज्ञानं पदार्थपरप्रबोधकमस्ति । तत्र च तस्य परार्थत्वे श्रुतज्ञानस्य वचनात्मकत्वं वा शब्दात्मकं वा कारणमिति प्राहुः । श्वेताम्बरसम्प्रदाये श्रुतज्ञानस्याक्षररूपानक्षररूपौ च द्वौ भेदौ स्वीकृतौ स्तः । तथाप्युभावपि शब्दजावेव । तयोस्त्वियानेव भेदो यदक्षररूपं श्रुतज्ञानमक्षरात्मकेन शब्देनैवोत्पन्नं भवति, अनक्षररूपं श्रुतज्ञानं चानक्षररूपेण शब्देनोत्पन्नं भवति । परन्तु दिगम्बरपरम्परायां शब्दजं श्रुतज्ञानमक्षरात्मकश्रुतम्, लिङ्गजश्रुतज्ञानञ्चानक्षरात्मकं श्रुतज्ञानमिति मन्यते । परन्त्वत्र सुस्पष्टमेव यच्छ्रुतज्ञाने शब्दस्यैव प्रधानता वरीवर्ति-इति दिगम्बर सम्प्रदायेऽपीष्टमेवास्ति । श्रीगोमट्टसारस्य जीवकाण्डे श्रुतज्ञानमित्थं वर्णितमस्ति-णियमेणिह सद्दजं पमुहं ॥ अस्य व्याख्यानावसरे कथितमस्ति यत्- "श्रुतज्ञानस्य प्रकरणे शब्दजाक्षरात्मकाल्लिङ्गजानक्षरात्मकाद्भेदाच्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352