________________
जैनदर्शने शब्दप्रमाणस्य विभावना
अकलङ्काचार्यानुसारन्तु खल्वेकमेव श्रुतज्ञानम् अक्षरात्मकमनक्षरात्मकञ्च भवति । लघीयस्त्रयनामके ग्रन्थेऽमी दार्शनिकाः कथयन्ति यत्- शब्दानां योजनायाः पूर्वं यन्मतिस्मृतिप्रत्यभिज्ञानतर्कानुमानादिकं ज्ञानं भवति, तन्मतिज्ञानमस्ति । अथ च शब्दानां योजनातः तदेव श्रुतज्ञानम्भवति । इदश्च श्रुतज्ञानमन्यैः प्रमाणैः यदा ज्ञाता स्वयं जानाति, तदा तदनक्षरश्रुतमिति कथ्यते, तद्वारा च तदन्येषां कृते ज्ञानं कारयति, तदा तदक्षरश्रुतमिति कथ्यते ।'
श्वेताम्बरसम्प्रदायेऽपि श्रुतज्ञानविषये कृतो विस्तृतो विमर्शः समुपलभ्यते । तत्र जिनभद्रगणिमहाभागानां विशेषावश्यकभाष्यनामक: ग्रन्थः ध्यानपात्रमस्ति । तैस्तत्र श्रुतज्ञानं मतिज्ञानस्यैवैको भेद इति प्रतिपादितम् । इन्द्रियमनोनिमित्तेन जायमानं सर्वप्रकारकं ज्ञानं ते मतिज्ञानत्वेनैव स्वीकुर्वन्ति । परन्तु परोपदेशवचनैः आगमवचनैश्चोत्पन्नं ज्ञानविशेषं श्रुतज्ञानमस्तीत्यपि ते स्वीकुर्वन्ति ।
मतिश्रुतयोर्भेदस्य कारणानि प्रदर्शयन् विशेषावश्यकभाष्ये निगदितं यत्- मतेः श्रुतस्य च लक्षणं भिन्नमस्ति, मतिः कारणं श्रुतञ्च कार्यमस्ति, मतिभेदाः श्रुतभेदाश्च पृथक्, पृथक् सन्ति, श्रुतज्ञानस्येन्द्रियं श्रोत्रमेवास्ति, मतिज्ञानस्य च पुनः सर्वाणीन्द्रियाणि, मतिज्ञानं मूकमस्ति श्रुतञ्च वाचालम् । एवं मतिश्रुतयोः विविधः भेदः ।।
__ इन्द्रियमनसोः साहाय्येन शब्दानुसारि यज्ज्ञानं जायते, तत् स्वस्मिन् प्रतिभासमानस्यार्थस्य प्रतिपादने समर्थं भवति, तदेव श्रुतज्ञानं कथ्यते । तद्यथा- 'घट' इति शब्दं श्रुत्वा घटार्थेन सह तस्य सङ्गतिः क्रियमाणे घट-घट-घट इत्यादिना शब्दोल्लेखेन सहान्तरङ्गे उत्पन्नं ज्ञानं स्वस्मिन् प्रतिभासमानस्यार्थस्य श्रुतिपारकं शब्दं जनयति, अतः तस्मादन्यं श्रोतारं बोधः सञ्जायते । अर्थात् श्रुतज्ञानद्वारा ज्ञाता स्वयमपि जानाति अन्यान् च ज्ञानं कारयति । मतिज्ञानं पुनरिन्द्रियमनसोः निमित्तेनोत्पन्नं भवति; शब्दानुसारि च तन्न भवत्येष एवोभयोः भेदः ।।
एवञ्च कथनीयार्थमेव विषयीकरोत्यतः यादृशमपि श्रुतज्ञानमस्ति, तत्सर्वं शब्दस्यैव परिणामः प्रतीयते । शब्देनात्र परोपदेशरूपः शब्दः ग्रन्थरूपश्च शब्दः संगृहीतो भवति । ताभ्यामुभाभ्यां जायमानञ्ज्ञानं शब्दस्यैव परिमाणरूपं भवतीति स्पष्टमेव । . एतादृशी श्वेताम्बरमान्यतां प्रति दिगम्बर मान्यता न किमपि विरोधं सन्दधाति । यतोहि दिगम्बरमान्यतायामपि श्रुतज्ञानं पदार्थपरप्रबोधकमस्ति । तत्र च तस्य परार्थत्वे श्रुतज्ञानस्य वचनात्मकत्वं वा शब्दात्मकं वा कारणमिति प्राहुः ।
श्वेताम्बरसम्प्रदाये श्रुतज्ञानस्याक्षररूपानक्षररूपौ च द्वौ भेदौ स्वीकृतौ स्तः । तथाप्युभावपि शब्दजावेव । तयोस्त्वियानेव भेदो यदक्षररूपं श्रुतज्ञानमक्षरात्मकेन शब्देनैवोत्पन्नं भवति, अनक्षररूपं श्रुतज्ञानं चानक्षररूपेण शब्देनोत्पन्नं भवति । परन्तु दिगम्बरपरम्परायां शब्दजं श्रुतज्ञानमक्षरात्मकश्रुतम्, लिङ्गजश्रुतज्ञानञ्चानक्षरात्मकं श्रुतज्ञानमिति मन्यते । परन्त्वत्र सुस्पष्टमेव यच्छ्रुतज्ञाने शब्दस्यैव प्रधानता वरीवर्ति-इति दिगम्बर सम्प्रदायेऽपीष्टमेवास्ति ।
श्रीगोमट्टसारस्य जीवकाण्डे श्रुतज्ञानमित्थं वर्णितमस्ति-णियमेणिह सद्दजं पमुहं ॥ अस्य व्याख्यानावसरे कथितमस्ति यत्- "श्रुतज्ञानस्य प्रकरणे शब्दजाक्षरात्मकाल्लिङ्गजानक्षरात्मकाद्भेदाच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org