________________
२००
Contribution of Jainas to Sanskrit and Prakrit Literature
वर्णपदवाक्यात्मकशब्दाज्जनितस्य श्रुतज्ञानस्य प्रधानता वर्तते; यतोहि आदानप्रदाने, पठन-पाठने वा सर्वत्र व्यवहारे वेदमेव मूलम् । यद्यपि लिङ्गमनक्षरात्मकं श्रुतज्ञानमेकेन्द्रियाणां पञ्चेन्द्रियाणां च जीवानां भवति तथापि व्यवहारे तदनुपयोगित्वादप्रधानमस्ति ।
अथ च श्रोत्रेन्द्रियेणास्य ग्रहणं भवतीत्यत: एवेदं श्रुतम् कथ्यते । शब्दाच्चोत्पन्नमर्थज्ञानं श्रुतज्ञानं कथ्यते-इत्यतोऽपि अक्षरात्मकस्य श्रुतज्ञानस्यैव प्राधान्यम्प्रतीयत इति ॥ दार्शनिकयुगस्य शब्दप्रमाणविमर्शः
अस्य दार्शनिकयुगस्यारम्भकाले जैनदार्शनिकेषु मूर्धन्येनाकलङ्कनामकेन दार्शनिकप्रवरेण परम्परया प्राप्तानि मतानि दर्शनान्तरसम्प्रदायगतविचारसरणिं यथानुकूलानि स्यात्तथा प्रदर्शितानि । प्रमाणसङ्ग्रहे११ प्रथमे प्रस्तावेऽमी आचार्याः -
"प्रत्यक्षं विशदज्ञानं त्रिधा श्रुतमविप्लवम् ।
परोक्षं प्रत्यभिज्ञादि प्रमाणे इति सङ्ग्रहः ॥ प्रत्यक्षं विशदज्ञानं तत्त्वज्ञानं विशदम्, इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षमतीन्द्रियप्रत्यक्षं त्रिधा । श्रुतमविप्लवम् प्रत्यक्षानुमानागमनिमित्तम् । परोक्षं प्रत्यभिज्ञादि स्मरणपूर्वकम् ।"-इत्यादिभिर्वचोभिः स्वमतानुसारिणो भेदाः प्रदर्शितवन्तः । परन्तु तदनन्तरं परम्परया प्राप्तौ प्रत्यक्षं परोक्षञ्चेति द्वौ भेदौ प्रमाणस्य स्वीकृत्यान्यैराचार्यैः तयोरूपभेदप्रदर्शनमित्थमकारि
१. प्रमाणस्य प्रत्यक्षम्परोक्षश्चेति द्वौ भेदौ । २. प्रत्यक्षप्रमाणस्य च सांव्यावहारिकं पारमार्थिकञ्चेति द्वावेवान्तर्भेदौ । ३. सांव्यावहारिकस्य प्रत्यक्षस्य-अवग्रहः, ईहा, अवायः धारणा चेति चत्वारो भेदाः । ४. परोक्षप्रमाणस्य स्मृतिः प्रत्यभिज्ञानम्, तर्कः, अनुमानम् आगमश्चेति पञ्च भेदाः ।
उत्तरकालिकैः सर्वैः दार्शनिकैः परोक्षप्रमाणस्यैते भेदाः स्वीकृताः । अत्र यदन्तिमो भेदस्स आगमप्रमाणम्, जैनेतरदर्शनसम्प्रदायेषु शब्दप्रमाणत्वेन स्वीकृतं प्रमाणमस्ति, तद्वर्तते ।
न्यायदिषु दर्शनेषु 'आप्तोपदेशः शब्दः । १३ इत्युक्त्वा शब्दप्रमाणस्य लक्षणं लक्षितमस्ति । आप्तश्चात्र "आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा ।"१४ - इत्यादिना कश्चित्पुरुषविशेषो गृह्यते ।२५
एतत्सर्वं मनसि निधाय जैनदर्शनेऽपि 'आगमप्रमाणस्य' शब्दप्रमाणस्य वा लक्षणं लक्षितम् ।
तद्यथा
१. न्यायावतारे सिद्धसेनदिवाकराः प्रोचुः ।.
दृष्टेष्टाव्याहृताद्वाक्यात् परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org