________________
जैनदर्शने शब्दप्रमाणस्य विभावना
२०१
आप्तोपज्ञमनुल्लद्ध्यमदृष्टेष्टविरोधकम् ।
तत्त्वोपदेशकृत्सार्वं शास्त्र कापथघट्टनम् ॥१६ अर्थात् प्रमाणत: निश्चितार्थात् अबाधितम् परमस्य विशिष्टस्य वाऽर्थस्याभिधायिनो वाक्यात् तत्त्वग्राहिरूपेण यत्प्रमाणमुत्पद्यते, तच्छब्दप्रमाणम् ।।
तच्च लौकिकशास्त्रजभेदाद् द्विविधम् । लौकिकम् अविप्रतारकस्य वचनादुत्पन्नं भवति, शास्त्रजञ्चाप्तोपज्ञम्, अनुलध्यम् न केनापि खण्डयितुं शक्यमिति यावत्, अदृष्टेष्टविरोधकम्, जीवादिसप्ततत्त्वानां स्वरूपस्य प्रकाशकम्, सर्वेभ्यो हितं करोति तत्, तीर्थान्तरस्य च यत् निराकर्तृ तच्छास्त्रं शब्दप्रमाणं कथ्यते ॥ अस्य न्यायावतारस्य वार्तिककाराः श्रीशान्त्याचार्या आगममित्थं व्याचक्षुः -
तापच्छेदकषैः शुद्धं वचनं त्वागमं विदुः ।
तापो ह्याप्तप्रणीतत्वमाप्तो रागादिसंक्षयात् ॥८ अत्र स्पष्टमेवास्ति यच्छुद्धं वचनमेवागमप्रमाणमस्ति । २. इत उत्तरं सर्वैरपि जैनतार्किकैः न्यायादिदर्शनमनुसरद्भिः प्रमाणस्यास्य लक्षणं लक्षितमस्ति । तत्रादौ परीक्षामुखनामके स्वग्रन्थे माणिक्यनन्दिनः प्रसिद्धाः जैनतार्किकाः शब्दप्रमाणभागमप्रमाणत्वेन लक्षयन्त एवमाहुः
आप्तवचनादिनिबन्धनमर्थज्ञानमागमः । इति९ न्यायदीपिकायामपि धर्मभूषणाः इत्थमेव प्रोचुः ।२०
३. राजवार्तिककारास्तु-'तदुपदिष्टं बुद्ध्यतिशयद्धियुक्तगणधरावधारितं श्रुतम् ।"- इत्यादौ श्रुतप्रमाणरूपेण शाब्दप्रमाणं लक्षयित्वा 'शब्दप्रमाणं श्रुतमेव' इत्यादिवचनैः पर्यायत्वमाहुरुभयोः ।२१ अत्रायमाशय:- केवलिभिः भगवत्पादैः कथितम्, अतिशयबुद्धि-ऋद्धिमद्भिः गणधरैवधारितञ्च वचनं शब्दप्रमाणम्मन्यत इति ।
यद्यप्युपर्युक्तानुसारम्भगवत्पादानान्तीर्थङ्कराणां वचांसि, तेषां संग्राहकानां साक्षाच्छिष्याणां गणधराणां वचांसि चागमत्वेन, श्रुतत्वेन शब्दप्रमाणत्वेन वा स्वीकर्तव्यानि सन्ति, तथापि नैतदात्यन्तिकम्, अन्याऽपि वाचः सन्ति यासामत्र समावेशो भवति । जैनदर्शनस्याग्रजैः दार्शनिकैः श्रीमद्भिरकलङ्काचार्यो: आप्तवचनमेव शब्दप्रमाणमित्याशयम्प्रकटयित्वाप्सलक्षणमित्थं व्याचक्षुः- "यो यत्राविसंवादकः स तत्राप्तः, ततः परोऽनाप्तः । तत्त्वप्रतिपादनमविसंवादः, तदर्थज्ञानात् ।" इत्यादि ।२२
अनेन यः कश्चिदपि यस्मिन् कस्मिन् विषयेऽविसंवादको भवति, स तस्मिन् विषये आप्त इत्यवगन्तव्यम् । अर्थादाप्तत्वनिर्णयार्थन्तद्विषयकं ज्ञानं तद्विषयिकी चाविसंवादकता अवंचकता वा स्यादित्येव प्रमुखतयापेक्षते । अतो व्यवहारेऽपि शब्दजन्यार्थबोधमप्यत्रागमप्रमाणे समाविष्टुं शक्यते । तच्च येन केनापि अविसंवादिनावञ्चकेनोच्चार्यमाणानि वचनान्यप्याप्तवचनानीति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org