SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ Contribution of Jainas to Sanskrit and Prakrit Literature आगमप्रमाणस्य भेदाः अनुयोगद्वारनामके ग्रन्थे आगमप्रमाणस्य द्वौ भेदौ व्यवस्थितौ लौकिकम् लोकोत्तरञ्च ।। अलौकिकञ्चेति । लौकिकागमे जैनेतरशास्त्राणां समावेशो भवति । तद्यथा-महाभारतम्, रामायणम्, वेदाः, इत्यादयोऽन्येऽपि ग्रन्थाः । लोकोत्तरागमे जैनशास्त्राणां समावेशो भवति । आगमप्रमाणमेकेनान्येन प्रकारेणापि विभाजितमस्ति । तद्यथा- आत्मागमः, अनन्तरागमः, परम्परागमश्चेति त्रिधा । एतद्विभाजनं सूत्रार्थयोरपेक्षातः कृतं वर्तते । जैनसम्प्रदाये मान्यतेयमस्ति यत्तीर्थङ्कराः 'अर्थम्' उपदिशन्ति, गणधराश्च तानाश्रित्य सूत्राणि विरचयन्ति । अतोऽर्थरूप आगमः तीर्थङ्करेभ्य आत्मागमः सूत्ररूपेण च ग्रथित आगमः गणधरेभ्य आत्मागमोऽस्ति । अर्थस्य मूलतयोपदेशस्तीर्थङ्कराणामस्तीति कृत्वा गणधरेभ्यो न स आत्मागमः, परन्तु, तेभ्यस्तु अनन्तरागमः, तेभ्य एवोपदिष्टत्वात् । गणधराणां ये शिष्यास्सन्ति तेभ्योऽर्थरूपागमः परम्परागमो वर्तते । यतोहि तीर्थङ्करेभ्यो गणधरैः गणधरेभ्यश्च शिष्यैश्चायमागमो लब्धः । सूत्ररूपागमस्तु गणधरशिष्येभ्योऽनन्तरागम एव सूत्राणामुपदेशस्तु गणधरेभ्यः साक्षात्प्राप्त इत्यतः । गणधरशिष्यानन्तरभाविभ्य आचार्येभ्यः सूत्रार्थोभयरूपागमः परम्परागम एवास्ति । जैनेतरदर्शनसम्प्रदायानाम्मतानि तन्निरासश्च जैनतार्किकैः स्वकीयदर्शनसम्प्रदाये पूर्वोक्तदिशा यदागमप्रमाणस्य विमर्शः कृतः, तत्र जैनेतरदर्शनसम्प्रदायस्य विविधानि मतानि पूर्वपक्षत्वेन संस्थाप्य खण्डितानि सन्ति । तानि च प्राधान्येनैतानि सन्ति । १. बौद्धादयो, ये खल्विदं शाब्दप्रमाणमेव न स्वीकुर्वन्ति, तेऽत्र प्राथम्यं लभन्ते । एतेषाम्मते तु शब्दप्रमाणम्प्रमाणमेव नास्ति, शब्दस्यार्थेन सहासम्बन्धात् । अथ च शब्दस्यार्थस्तु न विधिरूप: परन्तु अन्यापोहरूपो शब्दार्थः । अतः शाब्दं प्रमाणत्वेन स्वीकर्तुमेते नोत्सहन्ते ॥ ___ अत्र जैनदार्शनिकाः - शब्दार्थयोरसत्यपि तादात्म्यसम्बन्धे तदुत्पत्तिसम्बन्धे च, योग्यतारूपसम्बन्धस्य सद्भावाच्छाब्दप्रमाणमस्त्येव" इत्यादिना स्वमतस्थापनपरं विमर्श कृतवन्तः ॥२३ २. वैशेषिकादयोऽन्ये शब्दप्रमाणं स्वीकुर्वन्ति, परन्तु तस्यानुमानप्रमाणेऽन्तर्भावमनुभावयन्ति, न तु स्वतन्त्रप्रमाणत्वेन || अत्र शब्दानुमानयोरैक्यमस्तीति न, उभयोविषयान्यत्वात् । शब्दस्य केवलमर्थ एव विषयः, अनुमानस्य तु साध्यधर्मेण युक्तः धर्मी इति जैनदार्शनिकाः ॥ ____३. मीमांसकादयोऽप्यत्र जैनदर्शने पूर्वपक्षीयाः सन्तस्तिष्ठन्तीति । यतोहि शब्दप्रमाणस्यैते स्वीकारङ्कुर्वन्ति; तदंशे च जैनदर्शनानुकूल्यमत्र, परन्तु मीमांसकानां शाब्दप्रमाणविषयिकी या मान्यता अस्ति तामेते न स्वीकुर्वन्तीति । तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001982
Book TitleContribution of Jainas to Sanskrit and Prakrit Literature
Original Sutra AuthorN/A
AuthorVasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages352
LanguageEnglish, Hindi
ClassificationBook_English & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy