________________
जैनदर्शने शब्दप्रमाणस्य विभावना
२०३
(क) मीमांसकाः शब्दार्थयोः सम्बन्धम् नित्यम् मन्यन्ते । जैनतार्किकाणाम्मते शब्दार्थयोः नित्यसम्बन्धः नास्ति । (ख) मीमांसकानाम्मते शब्दोऽपि नित्यः । जैनाः शब्दमनित्यम्मन्यन्ते । (ग) वेदाः अनादयोऽपौरुषेयाश्चेति मीमांसकानाम्मतम् । जैनदर्शनसम्प्रदायानुसारन्तु वेदाः अपौरुषेयाः अनादयश्च न सन्ति ।
(घ) शब्दस्यार्थः सामान्यम्, इत्येतन्मतम् मीमांसकानाम् । तद्यथा- गोशब्दः गोत्वम् सामान्यञ्जाति वाऽभिदधति न तु गोव्यक्तिम् ।
अौषः जैनानाम्पक्षः५ –सामान्यमात्रमेव शब्दस्य विषय इति न, यतोहि सङ्केतानुसारमेव शब्दो वाचको भवति । संकेतश्च सामान्यविशिष्टे विशेष एव क्रियते, न तु सामान्यमात्रो यथा 'दण्डी' इत्यनेन शब्देन दण्डविशिष्टस्य पुरुषस्य प्रतीतिर्भवति, तथैव गोशब्देन गोत्वविशिष्टस्य गोपिण्डस्य प्रतीतिर्भवतीति ।
४. वैयाकरणानां कानिचिन्मतान्यप्यत्र पूर्वपक्षत्वम्भजन्ति । तेषामपि स्वमतस्थापनपुरस्सरो निरासोऽत्र कृतो वर्तते । तद्यथा
(अ.) केचन वैयाकरणाः संस्कृतशब्देष्वेवार्थबोधस्य शक्तिवर्तत इति मन्यन्ते; न तु पालीप्राकृतादिदेशभाषाशब्देषु ।
जैनदार्शनिकास्तु देशभाषाशब्देष्वपि अर्थबोधस्य शक्तिं मन्यन्ते ।२६ (आ) वैयाकरणा:- शब्दाद्वैतवादिनस्सन्ति । शब्दं विना ज्ञानं न संभवतीति मतमेतेषाम् ।
परन्तु जैनतार्किकास्तु शब्दसंसर्ग विनापि ज्ञानं सम्पद्यत इति स्वीकुर्वन्त उपर्युक्तस्य मतस्य निराकरणं कुर्वन्ति । उपसंहारः
एवम्प्रकारेण जैनसाहित्यस्य दार्शनिकानां विविधानां ग्रन्थानां कृतेनाभ्यासेनैवं प्रतिभासते यत् जैनसाहित्यस्य प्रारम्भिके काले प्रथमं श्रुतज्ञानरूपेण, दार्शनिकायुगाच्चागमप्रमाणरूपेण दर्शनान्तरेषु प्रसिद्धस्य शब्दप्रमाणस्य विषये ऊहापोहपूर्वको विचारः समुपलभ्यते । अत्रायमेव सारः यद् दर्शनान्तरेषु न्यायमीमांसादिषु शब्दप्रमाणस्य यादृशो विमर्शः (विभावना वा) प्राप्यते, तादृशोऽत्रापि प्रवर्तत एव । तथाप्यत्र जैनागमग्रन्थानु रिणो दार्शनिकाः स्वमतमनुसरन्तोऽनुकूलानि मतानि दर्शनान्तरेभ्यो गृहीतवन्तः प्रतिकूलानि च मतानि स्वसिद्धान्तविरोधात् खण्डनपूर्वकं त्यक्तवन्त इत्यलं बुद्धिमढद्वर्येषु ॥ पादटीप : १. सेन्टर ओफ एडवांस स्टडी इन संस्कृत, पूना युनिवर्सिटी, पूना द्वारा समायोजिते जैन लोजिक एन्ड
एपिस्टोमोलोजी परिसंवादे (दि. २७-२८-२९ मार्च, १९९५) पठितो निबन्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org