________________
१९८
Contribution of Jainas to Sanskrit and Prakrit Literature
पूर्वोक्तभेदद्वयविषये सर्वेषां सम्मतिरेवास्ति । इन्द्रियाणां मनसश्च साहाय्येन विना यज्ज्ञानमात्मना जायते, तत् प्रत्यक्षम् । यच्च ज्ञानमिन्द्रियाणाम्मनसश्च साहाय्येनैव जायते, तत्परोक्षमित्याचक्षते । प्रत्यक्षनामकस्य प्रमाणस्यात्र त्रयो भेदाः सङ्ककीर्तिताः । ते च अवधिः, मन:पर्यायः, केवलश्चेति । परोक्षप्रमाणस्य च मतिज्ञानं श्रुतज्ञानञ्चेति द्वौ भेदौ स्तः ।
इन्द्रियाणां मनसश्च साहाय्येन जायमानं प्राथमिकं ज्ञानं तन्मितिज्ञानम्, मतिज्ञानपूर्वकश जायमानं विशिष्टं यज्ज्ञानं तत् 'श्रुतज्ञानम्' कथ्यते । इदमेव श्रुतज्ञानमुत्तरकालिकेषु ग्रन्थेषु शब्दप्रमाणस्यागमप्रमाणस्य वा स्थानापन्नं जातमिति नात्र स्पष्टीकरणस्यावश्यकता ।
जैनदर्शने प्रमाणविचारस्येयम्प्राचीनतमा परम्परा । जैनेतरदर्शनेषु प्रत्यक्षानुमान-शब्दोपमानार्थापत्तीत्यादीनि प्रमाणानि स्वीकृतानि, परन्तु न तत्र परोक्षनामकं किमपि प्रमाणमस्ति यस्यात्र जैनदर्शने स्वीकारो जातः । अथ चायमपि जैनदर्शनस्य विशेषो यदत्रानुमानादीनि नामान्यपि प्राचीनेषु ग्रन्थेषु नोपलभ्यन्ते ।
क्रमशः गच्छति काले जैनसाहित्यं यथा यथा विकासपथमारूढं तथा तथा जैनेतरदर्शने प्रचलितानां प्रमाणानामनुसारिणी कापि व्यवस्था विचारणीयेति जैनदार्शनिकैरावश्यकतानुभूता । परिणामतः जैनेतरदर्शनसम्प्रदायेषु शब्दप्रमाणत्वेन यत् स्वतन्त्रप्रमाणमासीत्तस्यैवात्र श्रुतप्रमाणरूपेण स्वीकारो जातः । तस्मिन्नेव परोक्षप्रमाणे प्रत्यक्षप्रमाणे वा दर्शनान्तरे प्रसिद्धान्यर्थापत्त्यनुमानोपमानादिप्रमाणान्यन्त वितानि ।
एवं रीत्या स्पष्टमिदं प्रतिभाति यदागमकाले प्रमाणविषये स्वतन्त्रतया कृतो विचार: नोपलभ्यते, परन्तु तद्विषयकः सङ्ग्रह एव दर्शनान्तरेभ्यः सङ्ग्रहीत इति । श्रुतप्रमाणम् :
जैनदर्शने प्रसिद्धोऽयं श्रुतशब्दः श्रवणार्थकाद्धातोः निष्पन्नः, अतः श्रुतशब्देनानेन भूतकालिकी श्रवणक्रियावगम्यते; परन्तु ज्ञानविशेषेऽत्र जैनदर्शने रूढोऽयं शब्द: मतिज्ञानपूर्वकं यज्ज्ञानं भवति तदर्थे प्रयुज्यते । जैनेतरदर्शनेषु यच्छब्दप्रमाणं प्रमाणतया स्वीक्रियते, तदेवात्र जैनदर्शने श्रुतप्रमाणरूपेण जरीगृह्यते ।
- श्रुतज्ञानं मतिज्ञानपूर्वकं भवतीति सिद्धान्तः । पूर्व मतिज्ञानं जायते तदनन्तरं श्रुतज्ञानम् । इत्यत एव श्रुतज्ञानस्य मतिज्ञानं कारणमपि मन्यते । एतन्मतिज्ञानं श्रुतज्ञानञ्च सर्वेषां प्राणिनां सञ्जायते ।
मतिज्ञानेन ज्ञातेषु पदार्थेषु मनसः साहाय्येन जायमानं विशिष्टं ज्ञानं श्रुतज्ञानमाचक्षते । मतिज्ञानं पञ्चेन्द्रियैः मनसा चोत्पन्नं भवतीत्यत: तत्साहाय्येन ज्ञातस्य विषयस्यैवाश्रयमाश्रित्य श्रुतज्ञानस्य व्यापारः प्रवर्तते । अस्य श्रुतज्ञानस्य भेदढयमस्ति अनक्षरात्मकम्, अक्षरात्मकञ्चेति । श्रोत्रेन्द्रियेतराणामिन्द्रियाणां मनसश्च साहाय्येन जायमानं मतिज्ञानपूर्वकं यच्छ्रुतज्ञानन्तद् अनक्षरात्मकमिति कथ्यते । अथ च श्रोत्रेन्द्रियजन्यं मतिज्ञानपूर्वकं यच्छ्रुतज्ञानन्तद् अक्षरात्मकमिति कथ्यते । अनक्षरात्मकश्रुतज्ञानं केचन तार्किकाः लिङ्गजं श्रुतज्ञानमप्याचक्षन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org