Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 316
________________ भीमसेनराजर्षिकथा २९१ गच्छंती पथि तौ तूर्णमीक्षतुस्तापसाश्रमम् । मुनिवृद्धं च जटिलनामानं नेमतुर्मुदा ॥८७॥ अस्मिन् क्षणे जांगलः सादागाजटिल संनिधौ । शिष्यः कुर्वन् नमस्कारं गुरौ विनयवामनः ॥८८॥ प्रपछ जांगलं शिष्यं जटिलो कुटिलाशयः । वत्स त्वमधुनायातः कुतः कथय तन्मम ॥८९॥ अथाऽऽह जांगलः स्वामिन् सुराष्ट्रायामहं महं । शत्रुजयोजयंताद्रौ कृत्वैतो जिनपूजनैः ॥१०॥ तीर्थयोः कथ्यते कीहक् मद्विधैर्महिमैतयोः । यं न जानाति जनता केवलं वेत्ति केवली ॥११॥ भवद्वयसुखं सर्वं नृणां स्याद्यदुपासनात् । विशेषादुज्जयंता महिमानममुं श्रृणु ॥८२॥ कान्ती: कलाश्च कमलां, प्रभूतां चक्रिवज्रिणोः । यदाराधनतो जंतुर्लभेताऽशोकचंद्रवत् ॥१३॥ तथाहि पुर्यां चंपायां क्षत्रियपरजीवकः । अशोकचंद्रनामा भूद्दरिद्रो विरतो गृहात् ॥१४॥ उद्विग्नो विचरन् सोऽथ वीक्ष्य जैनतपोधनान् । नत्वाऽपृछच्च दौर्भाग्यभंगोपायं दयामयान् ॥१५॥ ऊचुस्तं मुनयो वत्स प्रमादकलितो भवे । जंतुर्भ्राम्यति सर्वत्र कर्मणा सबलोऽबलः ॥१६॥ तत्कर्म त्वन्यथाकर्तुं शक्यते केनचिन्नहिं । बाध्यते केवलं स्वात्मा विकल्पैरेव निर्भरम् ॥१७॥ विना भोगं न मुच्यते जीवः स्वकर्मपंजरात् । सेवया रेवताद्रेर्वा कृतया शुद्धभावतः ॥९८॥ इत्युक्त्वा विरतेष्वेषु स ययौ रेवताचलम् । वित्ताभिलाषी सद्भक्तिं प्रातनोत् स्थिरः स तपः ॥१९॥ कियद्भिर्दिवसैरंबादेवी प्रीतिपरेत्य च । अदात् स्पर्शोपलं तस्मै स्पर्शाल्लोहस्य हेमकृत् ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352