Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 322
________________ भीमसेनराजर्षिकथा २९७ राज्यं दत्त्वाऽनुजायाऽथ जयसेनाय तत्क्षणात् । चचालाऽल्पपरीवार रुद्धियुक् रेवतं प्रति ॥१७१।। क्रमाच्छत्रुञ्जयं गत्वा पूजयित्वाऽऽदिमं जिनम् । अष्टाह्निकामहं कृत्वा ततोऽगाढैवतं गिरिम् ॥१७२।। कर्पूरकेसरैश्च स चंदनै ननन्द नोद्रवैः । तत्राऽर्च्य नेमीशं विधिना विविधैः सुमैः ॥१७३॥ दानशीलतपोभावभेदैरब्दचतुष्टयम् । सोऽतिचक्राम सर्वेषां पूरयन्नर्थमर्थिनाम् ॥१७४॥ ज्ञानं चंद्रादथाचंदो दीक्षामादायमुक्तिदाम् । तपत्येतपोऽत्यंतं भीमसेनो महामुनिः ॥१७५॥ पूर्वमीग् महापापकरोऽयं यत्र पर्वते । अतोऽष्टमदेन भूत्वा केवली मुक्ति मे क्षिति (मेष्यति) ॥१७६॥ इतमेतस्य माहात्म्यं पर्वताधिपते सुराः । ज्ञानचंद्रमुनीद्राऽऽस्यात् श्रृणुमोऽर्बुद गत्वेयं ॥१७७॥ महापापप्रकर्तारो महाकुष्ठादिरोगिणः । भवंति सर्वसौख्याऽऽद्या नरा रैवतसेवनात् ॥१७८॥ अल्पमप्यत्र भावेन प्रदत्तं बहुधा भवेत् । सूक्तिसीमंतिनीप्राप्तिकरं च बहु वृद्धिमत् ॥१७९।। द्रव्याऽभिलाषिणो द्रव्यं शर्म सौख्याऽभिलाषिणः । राज्यार्थिनोऽत्र राज्यं च प्राप्नुवंति द्रतामपि ॥१८०॥ स्वयं श्रीनेमिनाथोऽपि यत्तीर्थंश्रितवानतः । कैरन्यैः सेव्यते नैतत् सर्वपापाऽपहारकम् ॥१८१॥ माहेंद्रेद्रादिति श्रुत्वा देवास्ते भक्तितत्पराः । विधिना जिनमर्चित्वा ययुः कल्पं निजं निजम् ॥१८२॥ इति श्री तीर्थराजश्री शत्रुजय श्री गिरनारमाहात्म्यगर्भा । श्री भीमसेनराजर्षिकथा ॥ माहेंद्रेण सुराग्रे कथिता ॥श्री॥ 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352