________________
भीमसेनराजर्षिकथा
२९७
राज्यं दत्त्वाऽनुजायाऽथ जयसेनाय तत्क्षणात् । चचालाऽल्पपरीवार रुद्धियुक् रेवतं प्रति ॥१७१।। क्रमाच्छत्रुञ्जयं गत्वा पूजयित्वाऽऽदिमं जिनम् । अष्टाह्निकामहं कृत्वा ततोऽगाढैवतं गिरिम् ॥१७२।। कर्पूरकेसरैश्च स चंदनै ननन्द नोद्रवैः । तत्राऽर्च्य नेमीशं विधिना विविधैः सुमैः ॥१७३॥ दानशीलतपोभावभेदैरब्दचतुष्टयम् । सोऽतिचक्राम सर्वेषां पूरयन्नर्थमर्थिनाम् ॥१७४॥ ज्ञानं चंद्रादथाचंदो दीक्षामादायमुक्तिदाम् । तपत्येतपोऽत्यंतं भीमसेनो महामुनिः ॥१७५॥ पूर्वमीग् महापापकरोऽयं यत्र पर्वते । अतोऽष्टमदेन भूत्वा केवली मुक्ति मे क्षिति (मेष्यति) ॥१७६॥ इतमेतस्य माहात्म्यं पर्वताधिपते सुराः । ज्ञानचंद्रमुनीद्राऽऽस्यात् श्रृणुमोऽर्बुद गत्वेयं ॥१७७॥ महापापप्रकर्तारो महाकुष्ठादिरोगिणः । भवंति सर्वसौख्याऽऽद्या नरा रैवतसेवनात् ॥१७८॥ अल्पमप्यत्र भावेन प्रदत्तं बहुधा भवेत् । सूक्तिसीमंतिनीप्राप्तिकरं च बहु वृद्धिमत् ॥१७९।। द्रव्याऽभिलाषिणो द्रव्यं शर्म सौख्याऽभिलाषिणः । राज्यार्थिनोऽत्र राज्यं च प्राप्नुवंति द्रतामपि ॥१८०॥ स्वयं श्रीनेमिनाथोऽपि यत्तीर्थंश्रितवानतः । कैरन्यैः सेव्यते नैतत् सर्वपापाऽपहारकम् ॥१८१॥ माहेंद्रेद्रादिति श्रुत्वा देवास्ते भक्तितत्पराः । विधिना जिनमर्चित्वा ययुः कल्पं निजं निजम् ॥१८२॥ इति श्री तीर्थराजश्री शत्रुजय श्री गिरनारमाहात्म्यगर्भा । श्री भीमसेनराजर्षिकथा ॥ माहेंद्रेण सुराग्रे कथिता ॥श्री॥
000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org