________________
२९६
Contribution of Jainas to Sanskrit and Prakrit Literature
अष्टाह्निकां प्रतिदिनं नवैस्तत्र महोत्सवैः । जिनं सो पूजन्नेमि सह भ्रान्त्वा (त्रा)ऽनुजेन च ॥१५७॥ ततो नत्वा जिनाधीशं स्वदेशं प्रति सोऽचलत् । संपूजितः पथि नृपैः स्वां पुरी प्रापदुत्सवैः ॥१५८॥ अथ पौराः कृतोत्साहास्तं निरीक्ष्य सुलक्षणम् । उत्सवैर्विविधै नृत्यादिभिः प्रावेशयत् पुरीं ॥१५९॥ गृह्णन् जालाः (लाजा) पुरस्त्रीणां करैः मुक्ता गवाक्षतः । आशीः पुरस्सरं प्रापदुन्मना निजमंदिरम् ॥१६०॥ वस्तुद्रविणतांबूलवाजिवाऽवीक्षणादिभिः । सन्मान्यापेक्ष्य लोकं तं स सांतस्ततोऽविशत् ॥१६१॥ कुलदेवान् स नत्वाऽथ भुक्त्वा सार्धं स्वबंधुना । विश्रम्य च क्षणं प्रापत् सभां सभ्यः सभाजितम् ॥१६२॥ रक्ष स्वं न तत्रस चक्रे धर्म गतामयः । जग्राहार्थान् न लोभार्थी समभुंक्त न शक्तितः ॥१६३॥ चौराणां समभूद्वार्ता नाऽऽर्ताः पौराः कदाचन । न स्व कर्मच्युतिलोके यस्मिन् राज्यं प्रकुर्वते ॥१६४॥ स्मरन् पित्रोः सदा स्वेन हत्ययोः शोकतत्परः । तावुद्दिश्य महीमेनामादधे जिनमंडिताम् ॥१६५॥ दुःस्थानां दलयन् दैन्यं गुरुदेवेषु भक्तिभाक् । राज्यं चकार संसारविकारत्रासकारकः ॥१६६॥ अलंघ्यो वैरिणां दत्तयौवराज्यो निर्जानुजौ । मित्राय देशांतरिणे कोशव्यापारमादिशत् ॥१६७॥ सोऽन्यदा बहिरुद्याने जिनपूजनसोद्यमम् । गतो विद्याधरं वीक्ष्य प्रपच्छेत्ति कुतो भवत् ॥१६८॥ सोऽपि तं प्राह भूपाल ! नमस्कृत्य जिनानहम् । शत्रुजयोज्जयंताद्रयोरिहाऽऽगां श्रीजिनांतिकम् ॥१६९॥ अथ राज्येऽपि तद्वाक्यात् जिनं सस्मार रैवते । चिंतयनिति धिग् जन्म मम यो न नमामि तम् ॥१७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org