________________
भीमसेनराजर्षिकथा
२९५
भीमसेन ! त्वया पूर्वे जन्मन्यन्यातो मुनिः । अष्टादश (घ) टीयावत् पीडितसत्फलं ह्यतः ॥१४३॥ आराध्या न विराध्यंते विबुधै दुविधा अपि । तद्विराधनतः कष्टं मिष्टंतत्सेवनात्विह ॥१४४॥ अतः परं च ते भद्रं भविष्यति न संशयः । व्यतीतो ह्यशुभः कालः मा विषादं मनाक् कुरु ॥१४५॥ त्वयैव भाविनी भूमिनिखिलाजिन मंडिता । न त्वत्सदृग्नरः कश्चित् महापुण्यो भविष्यति ॥१४६॥ मुनेरित्युपदेशेन स देशांतरिणा समम् । मुनि नत्वाऽचलच्चारु चिंतयन् प्रति रैवतम् ॥१४७॥ क्रमादऽथ गिरिं प्राप्य गंतुं भीमोऽर्हदालये । गृहीत्वाऽऽरात्रिकं संघाऽऽमात्यसंयुक्तमैक्षत ॥१४८॥ विधायाऽऽरात्रिकं सोऽपि भीमं च उपलक्ष्य च । अमात्यानवदन्नेवमितः किंचिद्विलोक्यताम् ॥१४९॥ (आ) x तिथ्यमं विलोक्याऽथ प्रोचू राजन् भवेदऽसौ । भीमसेनः श्वरेर्यः सन् प्रतिदेशं विलोकितः ॥१५०॥ इतश्च सर्वैरुत्थाय राजा संजातहर्षतः ।। भीमसेनं समाश्लिष्य हर्षात् किंचिन्नमामस ॥१५१॥ भीमसेनोऽपि तं श्लिष्टमाश्लिष्याऽऽश्लिष्य हर्षभाक् । चुचुंब मूर्ति सन् प्रीतिवल्लीवर्धनबाष्पमुक् ॥१५२॥ इति प्रोचेऽनु(ज) भक्त्या भीमसेन ! मया विभो । न तत्किचिदिहस्थानं यत्र त्वं ना वि (व्य) लोक्यत ॥१५३॥ क्व भ्रातर भवोभूरि वत्सराणि मया विना । न्यासवद्रक्षितं राज्यं स्वीकरोतु भवान् स्वकम् ॥१५४॥ इत्यस्य विनयोक्तेन प्रमोदपरमानसः । सचिवै राज्यभारं सोउंगीचकार सुसारधीः ॥१५५॥ जलैः स्नात्वाऽथ विमलैः भीमसेनः सुवासनः । जिनं स्नाप्याऽर्चयित्वा चाऽरात्रिकं विधिना व्यधात् ॥१५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org