________________
२९४
Contribution of Jainas to Sanskrit and Prakrit Literature
इति मित्रस्य वचसा धैर्यमालंब्य चेतसा । समुद्रं च समुल्लंघ्य क्रमात् प्रापत्तटावनीम् ॥१२९।। चलितौ तु ततस्तौ द्वौ प्रति रैवतपर्वतम् । पथि रत्नसुपाथेयौ चौरे मुष्टौ कुदैवतः ॥१३०॥ असंबलौ विवसनौ निराहारौ श्रितक्षमौ । तौ निरीक्ष्य मुनि कंचिन्मुमुदाते भृशं पथि ॥१३१॥ नत्वा तौ मुनये भक्त्या शांतस्वांताय हर्षितौ । शशंसतुः स्वच्छचित्तौ स्ववृत्तातमथार्तितौ ॥१३२॥ मुने ! दरिद्राऽभाग्यानामावं जानीहि भूपती । अत: पर्वतपातेन मरणायऽभिलाषुकौ ॥१३३॥ धाराधरो विना वारि विना जीवं कलेवरम् । विना गंधं च सुमनो विना पद्मं लु(ज)लाशयः ॥१३४॥ विना तेजस्य शशभृद्विना वाणी च संस्कृतं । विना कुलीनताऽऽचारं विना विद्यां तपस्विता ॥१३५॥ विना गृहं च गृहिणी नयश्च विनयं विना । विना दोषाकरं दोषा प्रासादः प्रतिमां विना ॥१३६॥ विना वयश्च शृंगारो विना सेना च नायकम् । विना कुलं सुपुत्रं च विना दानं यथा धनम् ॥१३७॥ विना दयां महाधर्मो विना सत्यं च वक्तृता । यथा विनाक्षिणी वक्त्रं तथा द्रव्यं विना नरः ॥१३८॥ कुलकं इति तद्वचनं श्रुत्वा सविषादं मुनीश्वरः । अनल्प-कृत(प)योपेतो जजल्प प्रतितो वचः ॥१३९॥ धर्मोऽभवत् भीम ! सव्रकृन् (सकृत् ) कुतः पूर्वजन्मनि । ततो निद्रव्यता ह्येषा मा प्राणेषु विषीद तां ॥१४०॥ कुले जन्माऽपरोगत्वं सौभाग्यं सौख्यमद्भुतम् । मातंगा जन्मलक्षैस्तु परिचर्याऽऽर्यता तथा । चक्रि शक्रेश्वरत्वं च धर्मादेव हि देहिनाम् ॥१४१॥ युग्मं । तमो (तो) माऽत्र गिरौ प्राणत्यागं हि कुरुतां युवाम् । रैवतं पर्वतं यातं सर्व चिंतितदायकम् ॥१४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org