________________
भीमसेनराजर्षिकथा
२९३
इति जांगलतः श्रुत्वा महिमानं महागिरेः । रैवतस्य मुदं प्रापुः सर्वे तत्र तपोधनाः ॥११५॥ वैदेशिकोपि भीमस्तन्महिमानं निशम्य तौ । रोहणे प्रथमं यानं चिरानिश्चित्य चक्रतुः ॥११६॥ मार्गमुल्लंघ्य तरसा रोहणं प्राप्य तौ ततः । जया परतु रचित्वा देवं पर्वतनायकम् ॥११७॥ प्रातः खानिं प्रपद्यऽथ हा दैवमितिवादिनौ । ददतुस्तौ उपहारं द्राक् खानौ रत्नेद्विधीर्षया ॥११८।। लब्ध्वा रत्नद्वयं भीमसेनोन्यर्थं महाप्रभं । एकं राजकुले दत्त्वा नीत्वा चैकमथाचलन् ॥११९॥ स गच्छन् जलधौ पोत संस्थौ निशि निशाकरम् । वीक्ष्य रत्नं करे कृत्वा साम्यमालोकयद् द्वयोः ॥१२०॥ भीमसेनस्य कृच्छ्रेण संप्राप्तं महती गरुत् ।। अभाग्ययोगाज्जलधौ तद्रत्नमपतत् करात् ॥१२१॥ मूर्छाते पूच्छ करोद्य (पृ) (त्युरोधं ) हा दैव ! किमिदं कृतम् । त्वया मे हरता रत्नं जीवितं न कथं हृतं ॥१२२॥ धिग् जीवितं मे धिग् जन्म धिङ्मानुष्यमवैभवम् । धिग् दैवं चेति विलपन् मूर्छितः पतितः पुनः ॥१२३।। तुमुलाऽऽरावतस्तस्य ! मिलिता नाविका नराः । वायुना वीजयित्वा मूर्छाभंगं व्यधुः क्षणात् ॥१२४॥ अथाऽसौ लब्धचैतन्यस्तानाथोच्चैः स हा द्रुतम् ।। मद्रत्नं पतितं वाद्दौ मृग्यते स्थाप्यतां च नौः ॥१२५॥ मित्रेण देशांतरिणा ततः स प्रतिबोधितः । किमिदं मित्र ते जातं क्व रत्नं क्व जलं क्व नौः ॥१२६॥ शुचं त्यज महाबंधो भज धैर्य विषीद मा । भूरीणि तव रत्नानि भविष्यंति मयि स्थिते ॥१२७॥ इदं मदीयं रत्नं वा गृहाण गुणवत् परम् । अद्यापि रैवतो भूभृदस्ति किं विलपपन्नसि ॥१२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org