________________
२९२
Contribution of Jainas to Sanskrit and Prakrit Literature गत्वाऽथ स्वपुरं भृत्यान् स्थापयित्वा च भूरिश: । राज्यमर्थबलानीत्वा सर्वसौख्याएयभुंक्त सः ॥१०१॥ अथैकदा चकाराऽसौ चिंतां चेतसि चारुधीः । धिग्मे जीवितमर्थं च राज्यं च निखिला:स्त्रियः ॥१०२ अंबिकायाः प्रसादेन सर्वमेतदुपार्जितम् । तामेव न स्मराम्यहं न नमामि च पापवान् ॥१०३॥ युग्मं अथ संघस्य सामग्री कृत्वा अन्येद्युः संयुतः । स्वजनेरचलच्चेते स इति प्रीतिपेशलः ॥१०४॥ दिनैः कियद्भिर्गत्वा स शत्रुजयगिरिं जिनम् । पूजयित्वा च विधिना पुनारैवतमागमत् । ॥१०५॥ गजेंद्रपदकुंडादिपेयोभिः स्नानमाचरन् । तज्जलैः स्नाप्य नेमीशं पुपूज कुसुमैर्घनैः ॥१०६॥ अथांऽबां जगतामंबां भक्त्या संपूज्य चादरात् । विरक्तोऽचिंतयच्चित्ते इति प्रीतिपेशलः ॥१०७॥ शतानि त्रीणि वर्षाणि राज्यं कृतममुष्य च । दैवस्यचांबिकायाश्च प्रसादान् महतो मया ॥१०८॥ ततोऽतः परमेतस्य श्रीनेमेरेव पादुकौ । शरणं मम भूयास्त्वं सुतो राज्यं करोतु च ॥१०९॥ निवेश्य राज्ये तनयं प्रे(क्ष्य) देशान् प्रतिहृतं । नीत्वा दीक्षां शुभध्यानात् प्रांते प्रायच्छिवं च सः ॥११०॥ प्रत्यक्षं भगवन्नेतत् समग्रं वीक्षितं मया । तज्जानेऽहं महातीर्थमिदमेव न वा परम् ॥१११॥ प्राप्यते पुरुषैनं ! यस्य तीर्थस्यसेवनात् ।। इह सर्वस्य संपत्तिः परत्र च परं पदम् ॥११२॥ लभंते सेवनाद्यस्य प्राणिन पापिनोऽप्यलम् । सर्वकर्माणि संक्षिप्य शिवमद्यक्तूमक्षयं ॥११३॥ भ्रमतां पक्षिणांखेऽपि छायायेषां स्पृशत्यमुं । लभंते कुगति नैते किं पुनः सहवासिनः ॥११४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org