________________
भीमसेनराजर्षिकथा
२९१
गच्छंती पथि तौ तूर्णमीक्षतुस्तापसाश्रमम् । मुनिवृद्धं च जटिलनामानं नेमतुर्मुदा ॥८७॥ अस्मिन् क्षणे जांगलः सादागाजटिल संनिधौ । शिष्यः कुर्वन् नमस्कारं गुरौ विनयवामनः ॥८८॥ प्रपछ जांगलं शिष्यं जटिलो कुटिलाशयः । वत्स त्वमधुनायातः कुतः कथय तन्मम ॥८९॥ अथाऽऽह जांगलः स्वामिन् सुराष्ट्रायामहं महं । शत्रुजयोजयंताद्रौ कृत्वैतो जिनपूजनैः ॥१०॥ तीर्थयोः कथ्यते कीहक् मद्विधैर्महिमैतयोः । यं न जानाति जनता केवलं वेत्ति केवली ॥११॥ भवद्वयसुखं सर्वं नृणां स्याद्यदुपासनात् । विशेषादुज्जयंता महिमानममुं श्रृणु ॥८२॥ कान्ती: कलाश्च कमलां, प्रभूतां चक्रिवज्रिणोः । यदाराधनतो जंतुर्लभेताऽशोकचंद्रवत् ॥१३॥ तथाहि पुर्यां चंपायां क्षत्रियपरजीवकः । अशोकचंद्रनामा भूद्दरिद्रो विरतो गृहात् ॥१४॥ उद्विग्नो विचरन् सोऽथ वीक्ष्य जैनतपोधनान् । नत्वाऽपृछच्च दौर्भाग्यभंगोपायं दयामयान् ॥१५॥ ऊचुस्तं मुनयो वत्स प्रमादकलितो भवे । जंतुर्भ्राम्यति सर्वत्र कर्मणा सबलोऽबलः ॥१६॥ तत्कर्म त्वन्यथाकर्तुं शक्यते केनचिन्नहिं । बाध्यते केवलं स्वात्मा विकल्पैरेव निर्भरम् ॥१७॥ विना भोगं न मुच्यते जीवः स्वकर्मपंजरात् । सेवया रेवताद्रेर्वा कृतया शुद्धभावतः ॥९८॥ इत्युक्त्वा विरतेष्वेषु स ययौ रेवताचलम् । वित्ताभिलाषी सद्भक्तिं प्रातनोत् स्थिरः स तपः ॥१९॥ कियद्भिर्दिवसैरंबादेवी प्रीतिपरेत्य च । अदात् स्पर्शोपलं तस्मै स्पर्शाल्लोहस्य हेमकृत् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org