________________
२९०
Contribution of Jainas to Sanskrit and Prakrit Literature
ततो जगादसोऽपीमं श्रणपायंस्वजीविते । स्वर्गात्सुरी: समेष्यंति श्वर त्र विहितोत्सवाः ॥७३॥ रत्नं चंद्रमधिष्ठातृदेवं खानेः सुभावनाः । पूजयिष्यंति विविधैर्गीतनृत्योपचारकैः ॥७४॥ तद्गीतदत्तचित्तेऽस्मिन्न सुरे तत्किकरान्वितः । नि:सारेस्त्वं बहिर्यातो दैवतस्यापि दुर्गमः ॥५॥ इत्याश्वास्य भीमसेनं स नरोऽतिविचित्रवाक् । तेनैव सार्धं तदह हर्निनाय बहुवार्त्तया ॥७६॥ इतः प्रातः मृगादिध्वानबंधपुरस्सरं । देव्यः सर्वा विमानस्थास्तत्राभीयुर्महोत्सवैः ॥७७॥ तद्गीतमग्नमनसि तस्मिनरवान्यधिपे सुरे । स किंकरयुतः शीघ्रं खार्नेबहिरुपाययौ ॥७८॥ मंदं मंदं ततो मार्गमश्राम कियद्दिनैः । सिंहलेमुख्यनगरं क्षितिमंडनमाप्तवान् ॥७९॥ तत्र कस्यापि सोऽतिष्ठत् कर्मकृद् व्यवहारिणः । भांडशालासु सुलभसंपूर्णाऽखिलवस्तुषु ॥८०॥ चक्रे चौर्यमनाचारंश्चतुरः परवंचने । तस्य गेहे भीमसेनो भूरिशो भीमदर्शनः ॥८१॥ अथैकदा परिज्ञाय तं चौरं तलरक्षकाः । प्रतिशुलीमलीकाढयं समंतात्स सवम (सम) चालयत् ॥८२॥ इतश्चेश्वरदत्तस्तं वीक्ष्य स्वस्योपकारिणं । उपलक्ष्य च राजानं विज्ञप्याऽमोचयद्रुतम् ॥८३॥ नावं चाऽऽरोह्य तं शीघ्र कियमिद्दिसैनिजम् । आगात् पृथ्वीपुरंनाम पुरं परपराक्रमः ॥८४॥ भीमसेनः समुत्तीर्य वाहाद्वीक्ष्य कंचनम् । देशांतरिणमाहस्मस्ववृत्तं तत् पुरः स्तदा ॥८५।। सोऽपि तवृत्तमाकर्ण्य मा विषीदेति चक्रवत् । नीत्वा सहैव तं चेले प्रति रोहणपर्वतम् ॥८६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org