________________
भीमसेनराजर्षिकथा
२८९
अहो त्वं मा विषादाय भव त्यज पराभवान् । मयि लब्धे मुनित्वेऽथ द्रारिद्र्यं ते गतं द्रुतम् ॥५९॥ परोपकारं सततं कर्तुं वयमितस्ततः । विचरामो न च स्वार्थं किमर्थं दुःखितोऽसि ॥६०॥ यत्तपते तपनो दद्यात् यद् जलदो जलम् । यथा द्रुमाः फलवंतश्च सुधावर्षी च यच्छशी ॥६१॥ यच्चंदनतरुत्पत्तिर्यद्वाति मलयानिलः ।। यद्रमंतेऽत्र सुजनास्तत्परोपकृतेः कृते ॥६२॥युग्मं॥ द्वीपेऽत्र संहले श्रेष्टे समेहि त्वं मया सह । रत्नसानैर्यथा तत्राऽददे ( देहि) रत्नानीति सुखात् ॥६३॥ इति श्रुत्वा भीमसेनस्तेन सार्धं चचाल च । प्रायेण मुनिवेषो हि विश्वासाय शरीरिणाम् ॥६४॥ दीनारशतपाथेयं पथि कृत्वा कियद्दिनैः । प्रापतू रत्नरवानि तौ प्रमोदकलिताशयौ ॥६५॥ अथ कृष्णचतुर्दश्यां भीमसेनं स तापसः । प्रक्षिप्य खानिमध्ये तं रत्नान्याकर्षयद्रुतम् ॥६६॥ नीत्वा तस्माद् रत्नानि छित्वा रज्जुं च तापसः । अधिष्टातृसुरायैवं खानि मध्येऽक्षिपत् क्षणात् ॥६७॥ तं दत्त्वा भीमसेनाख्यं पूजापुरुषमुत्सुकः । प्रचचालाऽथ स मुनिस्त्रिदंडी पुनरन्यतः ॥६८॥ ततः स भीमसेनोऽपि भ्रमन् खानावितस्ततः । ददर्श पुरुष किंचित्कृशमत्यंतपीडितम् ॥६९॥ स नृपः सोऽपि तं भीममालोक्याऽवददित्यथ । किमायातोऽसि वत्स ! त्वमत्रांतकमुखोपमे ॥७०॥ त्वमप्यहमिव प्रायः पापिना किं तपस्विना । रत्नानां लोभ-मुद्दिश्य नियतं प्रतारितः ॥७१॥ एवमेवैतदित्याह भीमसेनः ततश्च तम् । इतो निर्गमनोपायं वदस्वेति प्रपच्छ च ॥७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org