________________
२८८
Jain Education International
Contribution of Jainas to Sanskrit and Prakrit Literature
श्रुत्वेति सः शुकः प्राह भीमसेन ! जले पत । मत्स्यास्त्वां तु गिलिष्यंति व्रजिष्यंति तटोन्मुखम् ॥४५ ॥
फूत्कारं न यदा कुर्युस्तदेमामौषधीद्रुतम् । प्रक्षिपार्गलिके तेषां यथास्याद्विवरं महत् ॥४६॥
तथाभूतेऽथ मकरे निःसृत्य त्वं तटे भवेः । एवं ते जीवितोपायो नान्यथा च कदाचन ॥४७॥ शुकेनेति तदा प्रोक्ते भीमसेनोऽतिसाहसी । तत् कृत्वा प्राप सपदि सैहलं तत्र मद्भटः ॥ ४८ ॥ भूत्वा स्वस्थो नु वेलायां सलिलाशयान् । वृक्षांश्च वीक्ष्य सलिलं पपौ विश्राममाप्तवान् ॥४९॥ भीमसेनस्ततः काञ्चिदिशमाश्रित्य निःसृतः । गव्यूतीः कियती: क्रांत्वा पुरोऽपश्यत्रिदण्डिनम् ॥५०॥ तस्मै मुनिवरायैष नमस्कारं चकार च । आसीः पुरस्सरं भीममुवाच च मुनिर्मुदा ॥५१॥
कस्त्वं भोः किं नु गहने विपिनेऽस्मिन् व्रजन्नसि । दृश्यसे दुःखित इव स्वस्थो भव वदस्व तत् ॥५२॥ प्रीतस्तद्वचसा भीमसेनोऽवददिदं वचः । मुने ! किं कथयाम्यद्य मंदभाग्योऽस्मि सर्वथा ॥५३॥ वर्तते जे ( ये ) ऽत्र संसारे महादुःख-पा( प ) रा नराः । अभाग्यागतसौभाग्यास्तेषामाद्योऽस्मि चिंत्यताम् ॥५४॥
यत्र यामि यदर्थं तु तत्र तन्नैव सिध्यति । समुद्रेऽपि न पानीयं गते मयि पिपासिते ॥ ५५ ॥ न फलानि तरौऽलक्षि न पानीयं न शते । न रत्नं रोहणाऽद्रौ च मंदभाग्ये गते मयि ॥५६॥ न मे भ्राता न मे माता न कांता न पिता मम । परस्मिन्न शक्नोमि कर्तुं तूदरपूरणम् ॥५७॥ समाकर्ण्यति मुनिराद् तस्योक्तं दैन्यभाजिनः । मायाऽऽगारः सुधासारः प्रतिमं प्रतीतं वचः ॥ ५८ ॥
For Private & Personal Use Only
www.jainelibrary.org