Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

View full book text
Previous | Next

Page 320
________________ भीमसेनराजर्षिकथा २९५ भीमसेन ! त्वया पूर्वे जन्मन्यन्यातो मुनिः । अष्टादश (घ) टीयावत् पीडितसत्फलं ह्यतः ॥१४३॥ आराध्या न विराध्यंते विबुधै दुविधा अपि । तद्विराधनतः कष्टं मिष्टंतत्सेवनात्विह ॥१४४॥ अतः परं च ते भद्रं भविष्यति न संशयः । व्यतीतो ह्यशुभः कालः मा विषादं मनाक् कुरु ॥१४५॥ त्वयैव भाविनी भूमिनिखिलाजिन मंडिता । न त्वत्सदृग्नरः कश्चित् महापुण्यो भविष्यति ॥१४६॥ मुनेरित्युपदेशेन स देशांतरिणा समम् । मुनि नत्वाऽचलच्चारु चिंतयन् प्रति रैवतम् ॥१४७॥ क्रमादऽथ गिरिं प्राप्य गंतुं भीमोऽर्हदालये । गृहीत्वाऽऽरात्रिकं संघाऽऽमात्यसंयुक्तमैक्षत ॥१४८॥ विधायाऽऽरात्रिकं सोऽपि भीमं च उपलक्ष्य च । अमात्यानवदन्नेवमितः किंचिद्विलोक्यताम् ॥१४९॥ (आ) x तिथ्यमं विलोक्याऽथ प्रोचू राजन् भवेदऽसौ । भीमसेनः श्वरेर्यः सन् प्रतिदेशं विलोकितः ॥१५०॥ इतश्च सर्वैरुत्थाय राजा संजातहर्षतः ।। भीमसेनं समाश्लिष्य हर्षात् किंचिन्नमामस ॥१५१॥ भीमसेनोऽपि तं श्लिष्टमाश्लिष्याऽऽश्लिष्य हर्षभाक् । चुचुंब मूर्ति सन् प्रीतिवल्लीवर्धनबाष्पमुक् ॥१५२॥ इति प्रोचेऽनु(ज) भक्त्या भीमसेन ! मया विभो । न तत्किचिदिहस्थानं यत्र त्वं ना वि (व्य) लोक्यत ॥१५३॥ क्व भ्रातर भवोभूरि वत्सराणि मया विना । न्यासवद्रक्षितं राज्यं स्वीकरोतु भवान् स्वकम् ॥१५४॥ इत्यस्य विनयोक्तेन प्रमोदपरमानसः । सचिवै राज्यभारं सोउंगीचकार सुसारधीः ॥१५५॥ जलैः स्नात्वाऽथ विमलैः भीमसेनः सुवासनः । जिनं स्नाप्याऽर्चयित्वा चाऽरात्रिकं विधिना व्यधात् ॥१५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352