Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 318
________________ भीमसेनराजर्षिकथा २९३ इति जांगलतः श्रुत्वा महिमानं महागिरेः । रैवतस्य मुदं प्रापुः सर्वे तत्र तपोधनाः ॥११५॥ वैदेशिकोपि भीमस्तन्महिमानं निशम्य तौ । रोहणे प्रथमं यानं चिरानिश्चित्य चक्रतुः ॥११६॥ मार्गमुल्लंघ्य तरसा रोहणं प्राप्य तौ ततः । जया परतु रचित्वा देवं पर्वतनायकम् ॥११७॥ प्रातः खानिं प्रपद्यऽथ हा दैवमितिवादिनौ । ददतुस्तौ उपहारं द्राक् खानौ रत्नेद्विधीर्षया ॥११८।। लब्ध्वा रत्नद्वयं भीमसेनोन्यर्थं महाप्रभं । एकं राजकुले दत्त्वा नीत्वा चैकमथाचलन् ॥११९॥ स गच्छन् जलधौ पोत संस्थौ निशि निशाकरम् । वीक्ष्य रत्नं करे कृत्वा साम्यमालोकयद् द्वयोः ॥१२०॥ भीमसेनस्य कृच्छ्रेण संप्राप्तं महती गरुत् ।। अभाग्ययोगाज्जलधौ तद्रत्नमपतत् करात् ॥१२१॥ मूर्छाते पूच्छ करोद्य (पृ) (त्युरोधं ) हा दैव ! किमिदं कृतम् । त्वया मे हरता रत्नं जीवितं न कथं हृतं ॥१२२॥ धिग् जीवितं मे धिग् जन्म धिङ्मानुष्यमवैभवम् । धिग् दैवं चेति विलपन् मूर्छितः पतितः पुनः ॥१२३।। तुमुलाऽऽरावतस्तस्य ! मिलिता नाविका नराः । वायुना वीजयित्वा मूर्छाभंगं व्यधुः क्षणात् ॥१२४॥ अथाऽसौ लब्धचैतन्यस्तानाथोच्चैः स हा द्रुतम् ।। मद्रत्नं पतितं वाद्दौ मृग्यते स्थाप्यतां च नौः ॥१२५॥ मित्रेण देशांतरिणा ततः स प्रतिबोधितः । किमिदं मित्र ते जातं क्व रत्नं क्व जलं क्व नौः ॥१२६॥ शुचं त्यज महाबंधो भज धैर्य विषीद मा । भूरीणि तव रत्नानि भविष्यंति मयि स्थिते ॥१२७॥ इदं मदीयं रत्नं वा गृहाण गुणवत् परम् । अद्यापि रैवतो भूभृदस्ति किं विलपपन्नसि ॥१२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352