Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 317
________________ २९२ Contribution of Jainas to Sanskrit and Prakrit Literature गत्वाऽथ स्वपुरं भृत्यान् स्थापयित्वा च भूरिश: । राज्यमर्थबलानीत्वा सर्वसौख्याएयभुंक्त सः ॥१०१॥ अथैकदा चकाराऽसौ चिंतां चेतसि चारुधीः । धिग्मे जीवितमर्थं च राज्यं च निखिला:स्त्रियः ॥१०२ अंबिकायाः प्रसादेन सर्वमेतदुपार्जितम् । तामेव न स्मराम्यहं न नमामि च पापवान् ॥१०३॥ युग्मं अथ संघस्य सामग्री कृत्वा अन्येद्युः संयुतः । स्वजनेरचलच्चेते स इति प्रीतिपेशलः ॥१०४॥ दिनैः कियद्भिर्गत्वा स शत्रुजयगिरिं जिनम् । पूजयित्वा च विधिना पुनारैवतमागमत् । ॥१०५॥ गजेंद्रपदकुंडादिपेयोभिः स्नानमाचरन् । तज्जलैः स्नाप्य नेमीशं पुपूज कुसुमैर्घनैः ॥१०६॥ अथांऽबां जगतामंबां भक्त्या संपूज्य चादरात् । विरक्तोऽचिंतयच्चित्ते इति प्रीतिपेशलः ॥१०७॥ शतानि त्रीणि वर्षाणि राज्यं कृतममुष्य च । दैवस्यचांबिकायाश्च प्रसादान् महतो मया ॥१०८॥ ततोऽतः परमेतस्य श्रीनेमेरेव पादुकौ । शरणं मम भूयास्त्वं सुतो राज्यं करोतु च ॥१०९॥ निवेश्य राज्ये तनयं प्रे(क्ष्य) देशान् प्रतिहृतं । नीत्वा दीक्षां शुभध्यानात् प्रांते प्रायच्छिवं च सः ॥११०॥ प्रत्यक्षं भगवन्नेतत् समग्रं वीक्षितं मया । तज्जानेऽहं महातीर्थमिदमेव न वा परम् ॥१११॥ प्राप्यते पुरुषैनं ! यस्य तीर्थस्यसेवनात् ।। इह सर्वस्य संपत्तिः परत्र च परं पदम् ॥११२॥ लभंते सेवनाद्यस्य प्राणिन पापिनोऽप्यलम् । सर्वकर्माणि संक्षिप्य शिवमद्यक्तूमक्षयं ॥११३॥ भ्रमतां पक्षिणांखेऽपि छायायेषां स्पृशत्यमुं । लभंते कुगति नैते किं पुनः सहवासिनः ॥११४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352