Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 313
________________ २८८ Jain Education International Contribution of Jainas to Sanskrit and Prakrit Literature श्रुत्वेति सः शुकः प्राह भीमसेन ! जले पत । मत्स्यास्त्वां तु गिलिष्यंति व्रजिष्यंति तटोन्मुखम् ॥४५ ॥ फूत्कारं न यदा कुर्युस्तदेमामौषधीद्रुतम् । प्रक्षिपार्गलिके तेषां यथास्याद्विवरं महत् ॥४६॥ तथाभूतेऽथ मकरे निःसृत्य त्वं तटे भवेः । एवं ते जीवितोपायो नान्यथा च कदाचन ॥४७॥ शुकेनेति तदा प्रोक्ते भीमसेनोऽतिसाहसी । तत् कृत्वा प्राप सपदि सैहलं तत्र मद्भटः ॥ ४८ ॥ भूत्वा स्वस्थो नु वेलायां सलिलाशयान् । वृक्षांश्च वीक्ष्य सलिलं पपौ विश्राममाप्तवान् ॥४९॥ भीमसेनस्ततः काञ्चिदिशमाश्रित्य निःसृतः । गव्यूतीः कियती: क्रांत्वा पुरोऽपश्यत्रिदण्डिनम् ॥५०॥ तस्मै मुनिवरायैष नमस्कारं चकार च । आसीः पुरस्सरं भीममुवाच च मुनिर्मुदा ॥५१॥ कस्त्वं भोः किं नु गहने विपिनेऽस्मिन् व्रजन्नसि । दृश्यसे दुःखित इव स्वस्थो भव वदस्व तत् ॥५२॥ प्रीतस्तद्वचसा भीमसेनोऽवददिदं वचः । मुने ! किं कथयाम्यद्य मंदभाग्योऽस्मि सर्वथा ॥५३॥ वर्तते जे ( ये ) ऽत्र संसारे महादुःख-पा( प ) रा नराः । अभाग्यागतसौभाग्यास्तेषामाद्योऽस्मि चिंत्यताम् ॥५४॥ यत्र यामि यदर्थं तु तत्र तन्नैव सिध्यति । समुद्रेऽपि न पानीयं गते मयि पिपासिते ॥ ५५ ॥ न फलानि तरौऽलक्षि न पानीयं न शते । न रत्नं रोहणाऽद्रौ च मंदभाग्ये गते मयि ॥५६॥ न मे भ्राता न मे माता न कांता न पिता मम । परस्मिन्न शक्नोमि कर्तुं तूदरपूरणम् ॥५७॥ समाकर्ण्यति मुनिराद् तस्योक्तं दैन्यभाजिनः । मायाऽऽगारः सुधासारः प्रतिमं प्रतीतं वचः ॥ ५८ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352