Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 222
________________ जैनदर्शने शब्दप्रमाणस्य विभावना' कमलेशकुमार छ चोकसी प्रस्तावना : विभिन्नेषु दर्शनसम्प्रदायेषु प्रमाणानां सड्ढयाविषयिणी समानता नास्तीति सुप्रसिद्धमेव । जैनेतरदर्शनसम्प्रदायेषु मीमांसकाः प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावादीनि षड् प्रमाणानि नैयायिकाः प्रत्यक्षानुमानशब्दोपमानानि चत्वारि प्रमाणानि, साङ्ख्याः प्रत्यक्षानुमानशब्दादीनि त्रीणि प्रमाणानि, वैशेषिकाः बौद्धाश्च प्रत्यक्षानुमाने द्वे प्रमाणे चार्वाकादयस्तु प्रत्यक्षैकप्रमाणमिति मन्यन्ते । जैनसम्प्रदायस्य श्वेताम्बरपरम्परायां सुप्रसिद्ध भगवतीसूत्रे प्रत्यक्षानुमानोपमानागमाश्चेति चत्वारि प्रमाणानि स्वीकृत्य निर्दिष्टानि सन्ति । परन्त्वस्य निर्देशस्य क्रमिको विकासः पूर्वं विचारणीय इतिकृत्वाऽत्र किमपि विकासक्रमवस्तु विमृश्यते । क्रमिको विकासः प्रमाणविषयिणी विचारणामधिकृत्य जैनसाहित्यस्य कृतेनाभ्यासेनैवम्प्रतीयते यत् प्रमाणविषयकस्य खण्डनमण्डनपूर्वकस्य विमर्शस्य दार्शनिकयुगादारम्भो जात इति । अत एव पूर्वजातानां कुन्दकुन्दादिप्रसिद्धदार्शनिकानां विरचितेषु ग्रन्थरत्नेषु ज्ञानज्ञेययोः सम्यग्विचारणा दृग्गोचरीभवति, तथापि तत्र प्रमाणप्रमेयादिशब्दानाम्प्रयोगो न दृश्यते । अस्मिन्नेव ग्रन्थे ज्ञानस्य द्वौ भेदौ प्रत्यक्षम् परोक्षञ्चेति स्वीकृतौ स्तः ।। कालान्तरे सूत्रशैलीप्रणीते तत्त्वार्थसूत्रनाम्न्युमास्वातिविरचिते ग्रन्थे ज्ञानमेव प्रमाणमस्तीति भणित्वा तस्य प्रमाणस्य प्रत्यक्षम् परोक्षञ्चेति द्वौ भेदौ प्रदर्शितावुपलभ्येते ।५ जैनदर्शने प्रमाणविषयिण्याः चर्चाया इत एवारम्भो भवतीति मन्यते । दार्शनिकयुगादूर्ध्वं जैनसिद्धान्ते ज्ञानस्य पञ्चभेदानां मतिश्रुतावधिमन:पर्यायकेवलादीनां विचारो दृढीभूय स्थितः प्रतीयते । प्रारम्भिकजैनसाहित्यकाराणामियमेव मौलिकी परम्परा । अनुगामिनि कालेऽकलङ्कदेवनाम्ना प्रसिद्धैर्दार्शनिकप्रवरैस्तर्कशास्त्रानुसारिणी दर्शनान्तरेषु प्रसिद्धां शैलीमनुसृत्य लघीयत्रये प्रमाणस्य भेदोपभेदलक्षणवती सम्यग् व्यवस्था कृतेति दिक् । प्रारम्भिके जैनसाहित्ये शब्दप्रमाणचर्चा जैनागमस्य प्रारम्भिकेषु ग्रन्थेषु तदानीन्तनस्य ज्ञानस्य पश्चाद्वर्तिनः प्रमाणस्य वा Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352