________________
[१, ३
चन्द्रप्रभचरितम् अनन्तविज्ञानमनन्तवीर्यतामनन्तसौख्यत्वमनन्तदर्शनम् । बिभर्ति योऽनन्तचतुष्टयं विभुः स नोऽस्तु शान्तिर्भवदुःखशान्तये॥३॥ 'जराजरत्यास्मरणीयमीश्वरं स्वयंवरीभूतमनश्वरश्रियः । निरामयं वीतभयं भवच्छिदं नमामि वीरं नृसुरासुरैः स्तुतम् ॥४॥
देवैः । दुग्धपयोधिमध्यगैः दुग्वस्य पयोधिदुग्धपयोधि: क्षीरस मुद्रः तस्य मध्यं गच्छन्ति स्म तथोक्तास्तैरिव । विदिद्युते । द्युति दोप्तो भाव लिट् । सः शशिलाञ्छनः शश्येव लाञ्छनं यस्य सः, चन्द्रलाञ्छन इत्यर्थ । जिनः अष्टमतीर्थंकरः । वः युष्मान् । 'पदाद्वाक्यस्य' इत्यादिना युष्मच्छब्दस्य द्वितीयाबहवचने वसादेशः । पातु रक्षतु । पा रक्षणे लोट् । उत्प्रेक्षा ॥ २ ॥ अनन्तविज्ञानमित्यादि । यः स्वामी। अनन्तविज्ञानं न विद्यतेऽन्तोऽवसानो(नं) यस्य तत् अनन्तं च तद्विज्ञानं तथोक्तम् । अनन्तवीर्यताम् अनन्तं च तद्वीयं चानन्तवीर्यम, तस्य भावस्ताम। अनन्तसौख्यत्वं सुखमेव सौख्यम। 'भेषजादि-' इत्यादिना स्वाथिकस्टयण अनन्तं च तत्सौख्यं चानन्तसौख्यं तस्य भावस्तत । अनन्तदर्शनम अनन्तं च तदर्शनं च तथोक्तम। इति अनन्तचतुष्टयम् अनन्तानां चतुष्टयं तथोक्तम् । बिभर्ति धरति । हुन धारण-पोषणयोलट् । सः । शान्तिः शान्तिजिनः । विभुः स्वामी। नः अस्माकम् । ‘पदाद्वाक्यस्य' इत्यादिना युष्मदस्मत्षष्ठीबहुवचनस्य नसादेशः । भवदुःखशान्तये भवस्य संसारस्य दुःखस्य शान्तये शमननिमित्तम् । अस्तु भूयात् । ॥३॥ जरेत्यादि । जराजरत्या जरैव जरती तया । अस्मरणीयं ध्यातुमयोग्यम् । ईश्वरं स्वामिनम् । अनश्वरश्रियः नित्यश्रियः । स्वयंवरीभूतं प्रागवर इदानीं वरो भवति स्म तथोक्तस्तम् 'कर्मकर्तृभ्याम्-' इत्यादिना त्रिः । 'च्वौ चास्यानव्ययस्य' इतीकारादेशः । निरामयम् आमयान्निर्गतो निरामयः तं व्याधिरहितम् । वीतभयम वीतं भयं यस्य तं भयरहितम् । भवच्छिदम् भवं छिनत्तीति भवच्छित् तं संसारनाशकम् । न-सुरासुरस्तुतम नरामरासुरैः सन्नुतम् । वीरम् विशिष्टाम् ई लक्ष्मी राति ददातीति वीरः तं वर्धमानस्वामिनम् । नमामि
मणिकी प्रभा जैसी धवल थी। अतः चारों ओर बैठे हुए देव उस ( कान्ति ) में निमग्न होकर ऐसे सुशोभित होते थे मानो वे क्षीरसागरमें डुबकी लगा रहे हों ॥२॥ अनन्तज्ञान, अनन्तदर्शन, अनन्तसुख और अनन्तवीर्य इस अनन्तचतुष्टयके धारण करनेवाले सोलहवें तीर्थकर भगवान् शान्तिनाथ हम सबके सांसारिक दुःखोंका उपशमन करें ॥३॥ मैं ( वीरनन्दी) चौबीसवें तीर्थंकर भगवान् महावीरको नमन करता हूँ। वे सर्वथा नीरोग व निर्भय थे। उन्होंने भवपरम्पराको नाश कर दिया था, तथा क्या नर, क्या सुर और क्या असुर सभी उनके पवित्र गुणोंकी प्रशंसा करते थे। उनमें वे सब गुण विद्यमान थे जो मुक्तिके योग्य वरमें आवश्यक होते हैं। इसीलिए अनन्तचतुष्टयादिस्वरूप अविनश्वर लक्ष्मीसे सम्पन्न मुक्ति-श्रीने, स्वयं हो उनका वरण किया था। वेचारी जरा ( वृद्धावस्था ) उनके साथ अपने सम्बन्धके विषयमें उनका स्मरण भी नहीं कर सकती थी। कारण कि उसका तारुण्य ढल चुका था -
१. टोकाश्रितोऽयं पाठः प्रतिषु तु त्याः स्मरणीय इत्येवंबिध एव पाट उपलभ्यते । २. आ लेट । ३. आ इत्यादिना शास्त्रार्थिक-वत् । ४. भा धरति स्म । ५. आ भृञ् । ६. श स लेट् । ७. आ जरतिः । ८. श स विशिष्टं इ इष्टं राति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org