________________
श्रीआव
श्यकमलयगिरीयवृत्तौ नमस्कारे
॥ ५३७ ॥
Jain Education
मनीषिकया व्याख्यानं, यत उक्तम्- ' दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥ १ ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्ड ॥ २ ॥ - मिति, तत्र दण्डसमयात् प्राक् या पल्योपमासङ्ख्येयभागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत् तस्या बुद्ध्याऽसङ्ख्येयभागाः क्रियन्ते, ततो दण्डसमये दण्डं कुर्वन् असङ्ख्येयान् भागान् हन्ति, एकोऽसङ्ख्येयभागोऽवतिष्ठते, यश्च प्राकू कर्म्मत्रयस्यापि रसस्तस्याप्यनन्ता भागाः क्रियन्ते, ततः तस्मिन् दण्डसमये असातावेदनीय १ प्रथमवर्जसंस्थानपश्चक ५प्रथमवर्जसंहननपञ्चका ११ प्रशस्तवर्णादिचतुष्को १५ पघाता १६ प्रशस्तविहायोगति १७ अपर्याप्तका १८ स्थिरा १९शुभ २० दुर्भग२१ दुःस्वरा २२ नादेया २३ यशःकीर्ति २४ नीचैर्गोत्र २५ रूपाणां पञ्चविंशतिप्रकृतीनामनन्तान् भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते, तस्मिन्नेव च समये सातवेदनीय १ देवगति २ मनुष्यगति ३ देवानुपूर्वी ४ मनुष्यानुपूर्वी ५ पञ्चेन्द्रियजाति ६ शरीरपञ्चका ११ ङ्गोपाङ्गत्रयः १४ प्रथमसंस्थान १५ प्रथमसंहनन १६ प्रशस्तवर्णादिचतुष्टया| २० गुरुलघु २१ पराघातो २२ च्छ्वास २३ प्रशस्त विहायोगति २४ त्रस २५ बादर २६ पर्याप्त २७ प्रत्येका २८ ऽऽतपो२९ द्योत ३० स्थिर ३१ शुभ ३२ सुभग ३३ सुस्वरा ३४ देय ३५ यशः कीर्त्ति ३६ निर्माण ३७ तीर्थकरो ३८ चैर्गोत्र ३९रूपाणामेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्ये प्रवेशेनोपहन्यते, समुद्घातमाहात्म्यमेतत्, तस्य चोद्धरितस्य स्थितेरसङ्ख्येयभागस्यानुभागलवानन्तभागस्य यथाक्रममसङ्ख्येया अनन्ताश्च भागाः क्रियन्ते, ततो द्वितीये कपाटसमये स्थितेरसङ्ख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति, अत्रापि
For Private & Personal Use Only
समुद्घातः
॥ ५३७ ॥
ainelibrary.org