Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
इह ज्ञशरीरभव्यशरीरव्यतिरिक्तं नोआगमतो द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-दाहोपशममिति, दाहो-बाह्यः सन्तापः तस्योपशमो यस्मिन् तद्दाहोपशमं 'तण्हावुच्छे(इछे)यणं'ति तृषः-पिपासायाः छेदनं जलसङ्घातेन तदपनयनात् , तथा मलो बाह्यः अङ्गसमुत्थस्तस्य प्रवाहणं, प्रवाह्यतेऽनेनेति प्रवाहणं, जलेन तस्य प्रक्षालनात् , एवं त्रिभिरथैः कारणगतैर्नियुक्तं निश्चयेन युक्तं नियुक्तं-प्ररूपितं, यदिवा प्राकृतत्वात् सप्तम्यर्थे तृतीया, त्रिषु अर्थेषु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात् मागधादि द्रव्यतीर्थ, मोक्षसाधकत्वाभावात् ॥ सम्प्रति भावतीर्थमधिकृत्याह
कोहम्मि उ निग्गहिए दाहस्सोवसमणं हवइ तत्थं । लोहम्मि उ निग्गहिए तण्हावुच्छेअणं होई ॥१०७९॥ | अट्टविहं कम्मरयं यहुएहिं भवेहिं संचिअंजम्हा । तव-संजमेण धोवइ तम्हा तं भावओ तित्थं ॥१०८०॥
इह भावतीर्थमपि आगमनोआगमभेदतोऽनेकप्रकारं, तत्र नोआगमतो भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोधे एव निगृहीते दाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति तथ्यं-निरुपचरितं, नान्यथा, तथा लोभ एव निगृहीते 'तण्हावुच्छेयणं होतित्ति तृषः-अभिष्वंगलक्षणायाः छेदन-व्यपगमो भवति, तथा अष्टविधं अष्टप्रकारं कम्मैव जीवानुरंजनात् कर्मरजः बहुभिर्भवैःसञ्चितं तपःसंयमेन धाव्यते-शोध्यते यस्मात् तस्मात् प्रवचनं भावतीर्थम् ॥ दसणनाणचरित्तेसु निउत्तं जिणवरेहिं सबेहिं । एएण होइ तित्थं एसो अन्नोऽवि पज्जाओ ॥१०८१॥ दर्शनज्ञानचारित्रेषु नियुक्तं-नियोजितं सर्वैः ऋषभादिभिर्जिनवरैः-तीर्थकृद्भिः, यस्मादित्थंभूतेषु नियुक्तं तस्मात्
Jain Educatio
nal
For Private & Personel Use Only
Parijainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340