Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जिनादिस्वरूपं
श्रीआव.
इति तद्व्यवच्छेदार्थ धर्मतीर्थकरानित्युक्तं । आह-यद्येवं धर्मतीर्थकरानित्येतावदेवास्तु, लोकस्योद्योतकरानिति न वाच्यं, मलयगि. उच्यते, इह लोके येऽपि नद्यादिविषमस्थानेषु मुधिकया धर्मार्थमवतरणतीर्थकरणशीलास्तऽपि धर्मतीर्थकरा भण्यन्ते, ततो वृत्तौ सूत्र- मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याह । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहिस्पर्शिका यथोक्तप्रकारा जिना एव भवन्तीति, उच्यते, इह केषांचिदिदं दर्शनं- "ज्ञानिनो धर्मतीर्थस्य, कतारः परमं पदम् ।गत्वाss॥५९८॥
गच्छंति भूयोऽपि, भृशं (भवं ) तीर्थनिकारतः॥१॥” इत्यादि, ततस्तन्मतपरिकल्पितेषु यथोक्तप्रकारेषु मा भूत् सम्प्रत्यय इति तद्व्यवच्छेदार्थ जिनानित्याह, जिना नाम रागादिजेतारः, ते च कुनयपरिकल्पिता जिना न भवन्तीति, तीर्थनिकारतः पुनरिह भवाङ्करोत्पादनाद्, अन्यथा स न स्यात् , बीजाभावात् , तथा चोक्तमन्यैरपि-"अज्ञानपांशुपिहितं पुरातनं
कर्मवीजमविनाशि। तृष्णाजलाभिषिक्तं मुश्चति जन्माकुरं जन्तोः॥१॥ दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। ६ कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥२॥" आह-यद्येवं जिनानित्येतावदेवास्तु, लोकस्योद्योतकरानित्याद्यतिरिच्यते, उच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपि जिना उच्यते, तद्यथा-श्रुतजिना अवधिजिना मनःप
र्यायज्ञानिजिनाश्छद्मस्थवीतरागाश्च, ततो मा भूत्तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याद्यप्यदुष्टं । अपरहस्त्वाह-अर्हत इति न वाच्यं, न खल्वनन्तरोदितस्वरूपा अहव्यतिरेकेणापरे सम्भवन्ति, उच्यते, अर्हतामेव विशे
ध्यत्वान्न दोषः, आह-यद्येवं तर्हि अहंत इत्येतावदेवास्तु, लोकस्योद्योतकरानित्यादि पुनरपार्थक, न, तस्य विशेषणत्वात्, विशेषणसाफल्यस्य च प्रतिपादितत्वादिति । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामहतां केवलित्वव्याभि
SANSARKOREASARAN
॥५९८॥
Jain Education
For Private
Personal Use Only

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340