Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 310
________________ श्रीभाव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥ ५९७ ॥ Jain Education यशः - पराक्रमकृतं, पराक्रमसमुत्थः साधुवाद इति भावः, अभयादयः प्रकटार्थाः, नवरमन्तकर इत्यत्रान्तः कर्म्मणां तत्फलभूतस्य वा संसारस्य परिगृह्यते ॥ उक्तो भावकरः, अधुना जिनादिप्रतिपादनार्थमाहजिअकोह- माण- माया जिअलोभा तेण ते जिणा हुंति । अरिणो हन्ता रयं हंता अरिहंता तेण वुच्चति ॥१०८८ ॥ जितक्रोधमानमाया जितलोभा येन कारणेन भगवन्तस्तेन कारणेन जिना भवन्ति, 'अरिणो हंता' इत्यादि गाथादलं यथा नमस्कारनिर्युक्तौ व्याख्यातं तथैव द्रष्टव्यं ॥ साम्प्रतं 'कीर्त्तयिष्यामि' इत्यादि व्याचिख्यासुरिदमाह कित्तेमि कित्तणिज्जे सदेवमणुआसुरस्स लोगस्स । दंसणनाणचरित्ते तवविणयो दंसिओ जेहिं ॥ १०८९ ॥ 'कित्तेमि' त्ति प्राकृतत्वात् कीर्त्तयिष्यामि, नामभिर्गुणैश्च किंभूतान् ? - कीर्त्तनीयान् स्तवार्हानित्यर्थः, कस्येत्यत्राह - 'सदेवमनुजासुरस्य लोकस्य त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-दर्शनज्ञानचारित्राणि मोक्षकारणानि, सूत्रे चैकवचनं समाहारत्वात्, तथा तपोविनयोऽत्र दर्शितः यैः, तत्र तप एव कर्म्मविनयात् तपोविनयः ॥ चउवीसंति अ संखा उसभाईआ उ भण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाविदेहेसु ॥ १०९० ॥ चतुर्विंशतिरिति संख्या, ते तु ऋषभादिका भण्यमाना एव, तुशब्द एवकारार्थः, अपिशब्दग्रहणात् पुनः ऐरवतमहाविदेहेषु ये भगवन्तस्तद्ग्रहोऽपि वेदितव्यः, इह सूत्रे 'तात्स्थ्यात्तद्व्यपदेश' इति न्यायादैरावतमहाविदेहाश्चेत्युक्तम् ॥ कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तनाणी तम्हा ते केवली हुंति ॥ १०९१ ॥ 'कृत्स्नं' सम्पूर्ण 'केवलकल्पं ' केवलोपमं, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च- "सामर्थ्य वर्णनायां च, छेदने For Private & Personal Use Only जिनादिस्वरूपं ॥५९७ ॥ Inelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340