Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
RAMSAROSAROKALOCALSASSADSOCIETES
इति विश्रुतः। सम्प्रति सुविधिः, शोभनो विधिरस्येति सुविधिः, विधिर्नाम सर्वत्र कौशलं, तत्र सर्व एव भगवन्त इदृशा इति विशेषकारणमाह
सबविहीसु अ कुसला गन्भगए तेण होइ सुविहिजिणो। भगवति गर्भगते जननी सर्वविधिषु कुशलाऽभवत् तेन सुविधिजिन इति नाम कृतं॥सम्प्रति शीतलः, सकलसत्त्वसन्तापकरणविरहादाल्हादजननाच्च शीतलः, तत्र सर्वेऽपि भगवन्तः शत्रूणां मित्राणां चोपरि शीतगृहसमानास्ततो विशेषमाह
पिउणो दाहोवसमो गन्भगए सीअलो तेण ॥१०९६॥ भगवतः पितः पूर्वोत्पन्नोऽसदृशः पित्तदाहोऽभवत्, स चौषधैर्नानाप्रकारैर्नोपशाम्यति, भगवति तु गर्भगते देव्या। परामर्श स दाह उपशान्तः, तेन शीतल इति नाम । इदानीं श्रेयान्, समस्तभुवनस्य हितकारित्वात् प्रशस्यतरः श्रेयान, प्राकृतशैल्या छान्दसत्वात् सेयंस इत्युच्यते, तत्र सर्वेऽपि भगवन्तस्त्रैलोक्यस्यापि श्रेयांस इति विशेषमाह
महरिहसिज्जारुहणम्मि डोहलो तेण होइ सिजंसो।। | तस्य राज्ञः पितृपरम्परागता देवतापरिगृहीता शय्या अय॑ते, यस्तामाश्रयति तस्योपसर्ग देवता करोति, गर्भगते च भगवति देव्या दौईहमजायत-शय्यामारोहामि, तत्रोपविष्टा, देवता समारसितुमपक्रान्ता, सा हि तीर्थकरनिमित्तं देवतया रक्षिता, एवं गर्भप्रभावतो देव्याः श्रेयो जातमिति श्रेयांस इति नाम कृतम् । साम्प्रतं वासुपूज्यः-वासवो-देवाः तेषां पूज्यः। वासुपूज्यः, सर्व एव भगवन्त इदृशा इति विशेषमाह
SAXASIREIARARAS
आ.सू.१०१
For Private & Personal Use Only
Mainelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340