Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 311
________________ करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः॥१॥" लोकं पञ्चास्तिकायात्मकं जानन्ति विशेषरूपतया, तथैव सम्पूर्णमेव, चशब्दस्यावधारणार्थत्वात् , पश्यन्ति सामान्यरूपतया, इह ज्ञानदर्शनयोः सम्पूर्णलोकविषयत्वे बहु वक्तव्यं, तत्तु नोच्यते, ग्रन्थविस्तरभयात्, केवलं 'निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते। विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वय ॥२॥मित्यनया दिशा स्वयमेवाभ्यूह्यं, धर्मसङ्ग्रहणीटीका च परिभावनीया, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यते इति केवलिनः इति व्युत्पत्तेः, अहोऽत्राकाण्ड एव केवलचारित्रिण इति किमर्थमुक्तं ?, उच्यते, केवलचारित्रप्राप्तिपूर्विका नियमतः केवलज्ञानावाप्तिरिति न्यायदर्शनार्थमित्यदोषः। तदेवं व्याख्यातो लोकस्येत्यादिरूपः सूत्रप्रथमश्लोकः ॥ साम्प्रतमत्रैव चालनाप्रत्यवस्थाने विशेषतो निदर्येते, तत्र लोकस्योद्योतकरानित्युक्तं, अत्राह-अशोभनमिदं यदुक्तंलोकस्येति, लोको हि चतुर्दशरज्वात्मकत्वेन परिमितः, केवलोद्योतश्चापरिमितो, लोकालोकव्यापकत्वात् , यद्वक्ष्यति-'केव-8 लियनाणलंभो लोगालोग पगासेइ' ततः सामान्यतः उद्योतकरान् यदिवा लोकालोकयोरुद्योतकरानिति वाच्यं, नतु लोक-16 स्येति, तदयुक्तं, अभिप्रायापरिज्ञानात् , इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततः आकाशास्तिकायभेद एव लोक इति न पृथगुक्तः, न चेतदनार्ष, यत उक्तम्-"पंचत्थिकायमइओ लोगों' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरानिति न वक्तव्यं, गतार्थत्वात् , तथाहि-ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, उच्यते, इहलोकैकदेशे ग्रामैकदेशे ग्रामशब्दवत् लोकशब्दप्रवृत्तिदर्शनात् मा भूत्तदुद्योतकरेष्ववधिविभङ्गज्ञानिध्वर्कचन्द्रादिषु वा सम्प्रत्यय Jain Educati o n For Private Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340