SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ जिनादिस्वरूपं श्रीआव. इति तद्व्यवच्छेदार्थ धर्मतीर्थकरानित्युक्तं । आह-यद्येवं धर्मतीर्थकरानित्येतावदेवास्तु, लोकस्योद्योतकरानिति न वाच्यं, मलयगि. उच्यते, इह लोके येऽपि नद्यादिविषमस्थानेषु मुधिकया धर्मार्थमवतरणतीर्थकरणशीलास्तऽपि धर्मतीर्थकरा भण्यन्ते, ततो वृत्तौ सूत्र- मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याह । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहिस्पर्शिका यथोक्तप्रकारा जिना एव भवन्तीति, उच्यते, इह केषांचिदिदं दर्शनं- "ज्ञानिनो धर्मतीर्थस्य, कतारः परमं पदम् ।गत्वाss॥५९८॥ गच्छंति भूयोऽपि, भृशं (भवं ) तीर्थनिकारतः॥१॥” इत्यादि, ततस्तन्मतपरिकल्पितेषु यथोक्तप्रकारेषु मा भूत् सम्प्रत्यय इति तद्व्यवच्छेदार्थ जिनानित्याह, जिना नाम रागादिजेतारः, ते च कुनयपरिकल्पिता जिना न भवन्तीति, तीर्थनिकारतः पुनरिह भवाङ्करोत्पादनाद्, अन्यथा स न स्यात् , बीजाभावात् , तथा चोक्तमन्यैरपि-"अज्ञानपांशुपिहितं पुरातनं कर्मवीजमविनाशि। तृष्णाजलाभिषिक्तं मुश्चति जन्माकुरं जन्तोः॥१॥ दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। ६ कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥२॥" आह-यद्येवं जिनानित्येतावदेवास्तु, लोकस्योद्योतकरानित्याद्यतिरिच्यते, उच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपि जिना उच्यते, तद्यथा-श्रुतजिना अवधिजिना मनःप र्यायज्ञानिजिनाश्छद्मस्थवीतरागाश्च, ततो मा भूत्तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याद्यप्यदुष्टं । अपरहस्त्वाह-अर्हत इति न वाच्यं, न खल्वनन्तरोदितस्वरूपा अहव्यतिरेकेणापरे सम्भवन्ति, उच्यते, अर्हतामेव विशे ध्यत्वान्न दोषः, आह-यद्येवं तर्हि अहंत इत्येतावदेवास्तु, लोकस्योद्योतकरानित्यादि पुनरपार्थक, न, तस्य विशेषणत्वात्, विशेषणसाफल्यस्य च प्रतिपादितत्वादिति । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामहतां केवलित्वव्याभि SANSARKOREASARAN ॥५९८॥ Jain Education For Private Personal Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy