Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 305
________________ मा. सु. १०० Jain Education लोगस्सुजोअगरा दबुजोएण न हु जिणा हुंति । भावुज्जोअगरा पुणे हुंति जिणवरा चउवीसं ॥ १०७३ ॥ लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, किन्तु तीर्थकर नामकर्म्मोदयतो अतुल सत्त्वार्थसम्पादनेन भावोद्यो तकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनः शब्दो विशेषणार्थः, स चैतद् विशिनष्टि - आत्मानमधिकृत्य केवलज्ञानेनोद्योतकराः, लोकप्रकाशकवचनप्रदीपापेक्षया तु शेषकतिपयभव्यविशेषानधिकृत्योद्योतकराः अत एवोक्तं भवति, कोऽर्थः १, न न भवन्ति, ननु भवन्त्येव, कांश्चन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासम्भवात्, चतुर्विंशतिग्रहणमधिकृतावसर्पिणीगततीर्थकर सङ्ख्या प्रतिपादनार्थ ॥ उद्योताधिकारे एव द्रव्योद्योत भावोद्योतयोर्विशेषप्रतिपादनार्थमाह दब्बुज्जो ओजोओ पगासई परिमिअम्मि खित्तम्मि । भावुज्जो ओजोओ लोगालोगं पयासेइ ॥ १०७४ | द्रव्योद्योतोद्योतो- द्रव्योद्योतप्रकाशः पुद्गलात्मकत्वात् तथाविधपरिणामयुक्तत्वाच्च प्रकाशयते, पाठान्तरं प्रभासते, परिमिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्तु अध्याहियते, यदा तु प्रभासते तदा स एव दीप्यते इति गृह्यते, भावोद्योतोद्योतो लोकालोकं प्रकाशयति प्रकटार्थं ॥ उक्त उद्योतः सम्प्रति करमवसरप्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहाय धर्म्म प्रतिपिपादयिषुराह दुभावो सबस्स दहमेवऽहवा । तित्ताइसहावो वा गुम्माइत्थी कुलिंगो वा ॥ १०७५ ।। धर्मो द्विविधः, तद्यथा-द्रव्यधर्मो भावधर्म्मश्च तत्र द्रव्ये इति द्वारपरामर्शः, द्रव्यविषयो धर्म्म उच्यते-द्रव्यस्य-अनुपयुक्तस्य धर्मो मूलोत्तरगुणानुष्ठानं द्रव्यधर्म, इहानुप्रयुक्तो द्रव्यं 'अनुपयोगो द्रव्य मिति वचनात्, द्रव्यमेव वा For Private & Personal Use Only Vo hd lainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340