________________
मा. सु. १००
Jain Education
लोगस्सुजोअगरा दबुजोएण न हु जिणा हुंति । भावुज्जोअगरा पुणे हुंति जिणवरा चउवीसं ॥ १०७३ ॥ लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, किन्तु तीर्थकर नामकर्म्मोदयतो अतुल सत्त्वार्थसम्पादनेन भावोद्यो तकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनः शब्दो विशेषणार्थः, स चैतद् विशिनष्टि - आत्मानमधिकृत्य केवलज्ञानेनोद्योतकराः, लोकप्रकाशकवचनप्रदीपापेक्षया तु शेषकतिपयभव्यविशेषानधिकृत्योद्योतकराः अत एवोक्तं भवति, कोऽर्थः १, न न भवन्ति, ननु भवन्त्येव, कांश्चन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासम्भवात्, चतुर्विंशतिग्रहणमधिकृतावसर्पिणीगततीर्थकर सङ्ख्या प्रतिपादनार्थ ॥ उद्योताधिकारे एव द्रव्योद्योत भावोद्योतयोर्विशेषप्रतिपादनार्थमाह
दब्बुज्जो ओजोओ पगासई परिमिअम्मि खित्तम्मि । भावुज्जो ओजोओ लोगालोगं पयासेइ ॥ १०७४ | द्रव्योद्योतोद्योतो- द्रव्योद्योतप्रकाशः पुद्गलात्मकत्वात् तथाविधपरिणामयुक्तत्वाच्च प्रकाशयते, पाठान्तरं प्रभासते, परिमिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्तु अध्याहियते, यदा तु प्रभासते तदा स एव दीप्यते इति गृह्यते, भावोद्योतोद्योतो लोकालोकं प्रकाशयति प्रकटार्थं ॥ उक्त उद्योतः सम्प्रति करमवसरप्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहाय धर्म्म प्रतिपिपादयिषुराह
दुभावो सबस्स दहमेवऽहवा । तित्ताइसहावो वा गुम्माइत्थी कुलिंगो वा ॥ १०७५ ।। धर्मो द्विविधः, तद्यथा-द्रव्यधर्मो भावधर्म्मश्च तत्र द्रव्ये इति द्वारपरामर्शः, द्रव्यविषयो धर्म्म उच्यते-द्रव्यस्य-अनुपयुक्तस्य धर्मो मूलोत्तरगुणानुष्ठानं द्रव्यधर्म, इहानुप्रयुक्तो द्रव्यं 'अनुपयोगो द्रव्य मिति वचनात्, द्रव्यमेव वा
For Private & Personal Use Only
Vo hd lainelibrary.org