Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 304
________________ श्री आव ० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥ ५९४ ॥ Jain Education शब्दा एकार्थिकाः, यत एवं लोकशब्दस्य व्युत्पत्तिः -लोक्यते इति लोकः, आलोकादयश्च पर्यायाः, तेन कारणेन अष्टविधः खलु लोको लोक उच्यते ॥ व्याख्यातो लोकः, साम्प्रतं उद्योत उच्यते, अत्राह- दुख ओनायचो दवभावसंजुत्तो । अग्गी दबुजोओ चंदो सूरो मणी विज्जू ॥ १०७१ ॥ 'द्विविधो' द्विप्रकारः, खलुशब्दो मूलभेदापेक्षया न व्यक्त्यपेक्षयेतिविशेषणार्थः, उद्योत्यते - प्रकाश्यतेऽनेनेति उद्योतो ज्ञातव्यो विज्ञेयो द्रव्यभावसंयुक्तः, द्रव्योद्योतो भावोद्योतश्चेति भावः तत्र द्रव्योद्योतोऽग्निश्चन्द्रः सूर्यो मणि:-चन्द्रकान्तादिलक्षणो विद्युत् प्रतीता, एते द्रव्योद्योतः एतैर्घटादीनामुद्योतेऽपि तद्गतायाः सम्यक्प्रतिपत्तेरभावात् सकलवस्तुधर्मानुद्योतनाश्च, न ह्यम्यादिभिः सदसन्नित्यानित्याद्यनन्तधर्मात्मकस्य वस्तुनः सर्व एव धर्म्माः धर्मास्तिकायादयो वा द्योत्यन्ते, तस्मादन्यादयो द्रव्योद्योत इति ॥ अधुना भावोद्योतमाह नाणं भावज्जोओ जह भणियं सवभावदंसीहिं । तस्स उवओगकरणे भावुजोअं विआणाहि ॥ १०७२ ॥ यथास्थितं त्वनेनेति ज्ञानं, ततो भावोद्योतः तेन घटादीनामुद्योतने तद्गतायाः सम्यक्प्रतिपत्तेर्निश्चयप्रतिपत्तेश्च भावात् तस्य तदात्मकत्वात् एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तमत आह-यथा भणितं यथावस्थितं सर्वभावदर्शिभिः, तथा यत् ज्ञानं, सम्यग्ज्ञानमिति भावः, तदपि नाविशेषेणोद्योतः किन्तु ?, तस्य ज्ञानस्योपयोगे करणे सति भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुनो ज्ञातत्वसिद्धेः इति गाथार्थः ॥ इत्थमुद्योतस्वरूपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिना भवन्ति तेनैव युक्तानुपदर्शयन्नाह - For Private & Personal Use Only उद्योतनिक्षेपः ॥५९४ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340