SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ इह ज्ञशरीरभव्यशरीरव्यतिरिक्तं नोआगमतो द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-दाहोपशममिति, दाहो-बाह्यः सन्तापः तस्योपशमो यस्मिन् तद्दाहोपशमं 'तण्हावुच्छे(इछे)यणं'ति तृषः-पिपासायाः छेदनं जलसङ्घातेन तदपनयनात् , तथा मलो बाह्यः अङ्गसमुत्थस्तस्य प्रवाहणं, प्रवाह्यतेऽनेनेति प्रवाहणं, जलेन तस्य प्रक्षालनात् , एवं त्रिभिरथैः कारणगतैर्नियुक्तं निश्चयेन युक्तं नियुक्तं-प्ररूपितं, यदिवा प्राकृतत्वात् सप्तम्यर्थे तृतीया, त्रिषु अर्थेषु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात् मागधादि द्रव्यतीर्थ, मोक्षसाधकत्वाभावात् ॥ सम्प्रति भावतीर्थमधिकृत्याह कोहम्मि उ निग्गहिए दाहस्सोवसमणं हवइ तत्थं । लोहम्मि उ निग्गहिए तण्हावुच्छेअणं होई ॥१०७९॥ | अट्टविहं कम्मरयं यहुएहिं भवेहिं संचिअंजम्हा । तव-संजमेण धोवइ तम्हा तं भावओ तित्थं ॥१०८०॥ इह भावतीर्थमपि आगमनोआगमभेदतोऽनेकप्रकारं, तत्र नोआगमतो भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोधे एव निगृहीते दाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति तथ्यं-निरुपचरितं, नान्यथा, तथा लोभ एव निगृहीते 'तण्हावुच्छेयणं होतित्ति तृषः-अभिष्वंगलक्षणायाः छेदन-व्यपगमो भवति, तथा अष्टविधं अष्टप्रकारं कम्मैव जीवानुरंजनात् कर्मरजः बहुभिर्भवैःसञ्चितं तपःसंयमेन धाव्यते-शोध्यते यस्मात् तस्मात् प्रवचनं भावतीर्थम् ॥ दसणनाणचरित्तेसु निउत्तं जिणवरेहिं सबेहिं । एएण होइ तित्थं एसो अन्नोऽवि पज्जाओ ॥१०८१॥ दर्शनज्ञानचारित्रेषु नियुक्तं-नियोजितं सर्वैः ऋषभादिभिर्जिनवरैः-तीर्थकृद्भिः, यस्मादित्थंभूतेषु नियुक्तं तस्मात् Jain Educatio nal For Private & Personel Use Only Parijainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy