________________
श्री आव ० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥५९६ ॥
Jain Educati
प्रवचनं भावतीर्थ, अथवा येन कारणेनेत्थंभूतेषु त्रिष्वर्थेषु नियुक्तमेतेन कारणेन प्रवचनं भावतस्त्रिस्थं, एष त्रिस्थलक्षणः | तीर्थशब्दापेक्षया अन्यः पर्यायः ॥ उक्तं तीर्थ, अधुना कर उच्यते
नामकरो ठवणकरो करो खित्त-काल- भावकरो । एसो खलु करगस्स उ निक्खेवो छविहो होइ ॥ १०८२ ॥ नामकरः स्थापनाकरः द्रव्यकरः 'क्षेत्रकालभावकरो' इति करशब्दः प्रत्येकमभिसम्बध्यते क्षेत्रकरः कालकरो भावकरश्च, एष खलु कर एव करकस्तस्य निक्षेपः षडिधो भवति ॥ तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकरमभिधित्सुराह - गो-महिसु-हि-पसूणं छगलीणंपि अ करा मुणेअवा । तत्तो अ तणपलाले भुसकटुंगारकरमेव ॥ १०८३ ॥
सीउंबरजंघाए बलवद्दकरे घडे अ चम्मे य । चुल्लगकरे अ भणिए अट्टारसमा करुप्पत्ती ॥ १०८४ ॥ गोमहिषोष्ट्रपशूनां छगलीनामपि च करा ज्ञातव्याः, तत्र गोकरो गोयाचनं, यथा एतावतीषु विक्रीतास्वेका गौर्दातव्येति, यदिवा गोविक्रयस्य रूपकयाचनं गोकरः १ एवं महिषकर, २ उष्ट्रकरः ३ पशुकरः ४ छगली - उरभ्रा तत्करः इगलीकरः ५ ततस्तृणविषयः करः तृणकरः ६ पलालकरः ७ तथा बुसकरः ८ काष्ठकरः ९ अङ्गारकरः १० शीता - लाङ्गलपद्धतिस्तामाश्रित्य करो - भागो धान्ययाचनं शीताकरः ११९ उम्बरो - देहली तद्विषयः करो रूपकयाचनं उम्बरकरः १२, एषां जङ्घाकरः १३ बलीवईकरः १४ घटकरः १५ चर्मकरः १६ चुलगो-भोजनं तदेव करः चुलगकरः, स चायं ग्रामेषु पञ्चकुलादीनधिकृत्य प्रसिद्ध एव १७ अष्टादशा करस्योत्पत्तिः स्वकल्पना शिल्पिनिम्मिता, पूर्वोक्तसप्तदश करव्यतिरिक्तः स्वेच्छया कल्पितोऽष्टादशः करः, स त्वौत्पत्तिक इति प्रसिद्धः ॥ उक्तो द्रव्यकरः, सम्प्रति क्षेत्रकरादीनभिधित्सुराह
ational
For Private & Personal Use Only
तीर्थंकरयोर्निक्षेपः
।। ५९६ ॥
jainelibrary.org