Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनं ॥
तदेवमुक्तं सामायिकाध्ययनम् , अधुना चतुर्विंशतिस्तवाध्ययनं प्रारभ्यते
तन्त्राध्ययनोहेशसत्रारम्भेषु सर्वेष्वेव कारणाभिसम्बन्धों वक्तव्यावित्येष वृद्धप्रवादः, ततः प्रथमतः कारणमुच्यते, तच्चेदं-जात्यादिगणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुणा सूत्रतोऽयंतश्चावश्यकश्रुतस्कन्धः प्रदातव्यः, सचाध्ययनसमुदायरूपः, तथा चोक्तम्-'एत्तो एकेकं पुण अज्झयणं कित्तइस्सामिति, प्रथमं चाध्ययनं सामायिकं, तच्चोपदर्शितम, इदानीं द्विसीयं चतुर्विंशतिस्तवाध्ययनमारभ्यते, द्वितीयता चास्य द्वितीयावयषत्वात् , द्वितीयावयवत्वमप्यस्य सिद्धमाचार्योपदर्शिताधिकारगाथाप्रामाण्यात्, सा चेयम्-"सावजजोगविरई उकित्तण गुणवतो व पडिवत्ती। खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥१॥" इयमत्र भावना-यथा किल युगपदशक्योपलम्भस्य पुरुषस्य दिहक्षोः क्रमेणांगान्यपदश्यन्ते, एवमत्राप्यावश्यकश्रुतस्कन्धस्य क्रमेण सामायिकादीन्यङ्गान्युपदश्येन्ते इति, इदमेव कारणमुद्देशसूत्रेष्वपि योजनीयं, एतदेव च सर्वाध्ययनेषु, न पुनर्भेदेन वक्ष्यामः, सम्प्रति सम्बन्ध उच्यते-इहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टं, इह तु तदुपदेष्ट्रणामहंतामुत्कीर्तनं प्रतिपाद्यते, अथवा सामायिकाध्ययने तदासेवनात् कर्मक्षय उक्तः, यत उकं निरुक्तिद्वारे-"सम्मबिंडी अमोहो सोही सब्भाव दंसणं बोही । अविवज्जओ मुदिहित्ति एवमाई निरुत्वाइं ॥१॥"
मा. सू.९९४
Jain Education Intel
For Private
Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340