Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 300
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥ ५९२ ॥ जीवाजीवावित्यत्रानुस्वारः प्राकृतत्वादलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्वौ भेदौ प्रत्येकं रूप्यरूपिभेदौ, तथा चाह - 'रूप्यरूपिण' इति, तत्रानादिकर्म्मसन्तानपरिगता रूपिणः, अरूपिणस्तु कर्म्मरहिताः सिद्धाः, अजीवास्तेऽरूपिणो धर्म्माधर्म्माकाशास्तिकायाः, रूपिणः परमाण्वादयः, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशावगन्तव्यौ, तथा चाह - 'सप्रदेशाप्रदेशा' विति, तत्र परमाणुव्यतिरेकेण सर्वेऽप्यस्तिकायाः सप्रदेशाः, परमाणवस्त्वप्रदेशाः, अथवा पुद्गलास्तिकायो द्रव्याद्यपेक्षया चिन्तनीयः, तद्यथा - द्रव्यतः परमाणुरप्रदेशः व्यणुकादयः सप्रदेशाः, | क्षेत्रत एकप्रदेशावगाढोऽप्रदेशः व्यादिप्रदेशावगाढाः सप्रदेशाः, कालत एकसमयस्थितिकोऽप्रदेशो व्यादिसमयस्थितिकाः सप्रदेशाः, भावत एकगुणकृष्णादिकोऽप्रदेशः द्विगुणकृष्णादिकाः सप्रदेशाः, इदमेव जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोकस्तं, अस्यैव शेषधम्र्मोपदर्शनायाह-नित्यानित्यं यद्द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चयः ॥ साम्प्रतं जीवाजीवयोर्नित्यतानित्यतामेवोपदर्शयति इ १ सिद्धा २ भविआया ३ अभविअ ४ पुग्गल १ अणागयद्धा २ य । तीअद्ध ३ तिनि काया ४ जीवाजीवट्ठिई चउहा ॥ १९८ ॥ (भा.) अस्या सामायिकाध्ययन इव व्याख्या कर्त्तव्या ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते | आगासस्स पएसा उड्ढे य अहे अ तिरिअलोए अ! जाणाहि खित्तलोगं अनंत जिणदेसियं सम्मं ॥ १९९॥ (भा.) प्रकृष्टाः देशाः प्रदेशाः आकाशस्य प्रदेशान् ऊर्ध्व चेति ऊर्ध्वठोके अधश्चेति अधोलोके तिर्यग्लोके च जा Jain Educationonal For Private & Personal Use Only लोकनिक्षेपः ॥ ५९२ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340