Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अयं चेह तावत् पश्चास्तिकायात्मको गृह्यते, तस्य लोकस्य उद्योतकरणशीला उद्योतकरास्तान्, केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः उक्तं च- "दुर्गतिप्रसृतान् जन्तून्, यस्माद् धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म्म इति स्मृतः ॥ १||” तीर्यते संसारसागरोऽनेनेति तीर्थ, धर्म एव धर्म्मप्रधानं वा तीर्थ धर्म्मतीर्थं तत्करणशीला धर्म्मतीर्थकरास्तान्, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकार कर्म्मजेतृत्वाजिनास्तान्, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हतीत्यर्हन्तस्तान् अर्हतः कीर्त्तयिष्यामि - स्वनामभिः स्तोष्ये, चतुर्विंशतिः सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलं ज्ञानमेषां विद्यत इति केवलिनः तान् केवलिनः, इति पदार्थः, पदविग्रहोऽपि यानि समासभाञ्जि पदानि तेषु दर्शित एव । सम्प्रति चालनावसरः- तत्र सा तावत् तिष्ठतु, सूत्रस्पर्शनियुक्तिरेवोच्यते, स्वस्थानत्वात् उक्तं च- 'अक्खलियसंहियाई वक्खाणचउकए दरिसियंमि । सुत्तष्फासियनिज्जुत्तिवित्थरत्थो इमो होइ ॥ १ ॥” चालनामपि चात्रैव वक्ष्यामः, तत्र 'लोकस्योद्योतकरा' निति यदुक्तं तत्र लोकनिरूपणायाह
नामंठवणादवि खित्ते काले भवे य भावे य । पज्जवलोगे य तहा अट्ठविहो लोगनिक्खेवो ॥ १०६९ ॥ नालोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोकः भावलोकः पर्यायलोकश्च, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः, व्यासार्थन्तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यलोकमभिधित्सुराह - जीवमजीवे रूवमरूवी सपएसमप्पएसे य । जाणाहि दवलोगं निश्च्चमनिच्चं च जं दवं ॥ १९७ ॥ (भा.)
Jain Educatinational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340